________________
1
तमानग्रहणमकृत्वा ऽण्वचनं नवाण इत्येवमर्थम् ॥ शूर्पाद्वान् || ६ । ४ । १३७ ॥ आदर्थे । शौर्पम् । शौपिंकम् ॥ यसनात् ।। ६ । ४ । १३८ || आईदर्थेऽम् । वासनम् ॥ विंशतिकात् ॥ ६ ॥ ४ । १३९ ॥ आदर्थेऽम् । वैशविकम || द्विगोरीनः || ६ । ४ । १४० ॥ विंशतिकशब्दान्तादाईदर्थे । द्विविंशतिकीनम् । विधानसामर्थ्याल्लुपू न ॥ अनाम्न्यद्विः लुप् । ६ । ४ । १४१ ॥ द्विगोरार्हदर्थे जातस्य प्रत्ययस्य । द्विकंसम् । अनाम्नीति किम् ! | पाचलोहितिकस । अद्धिरिति किम ! | द्विशुर्पेण क्रीतम् । द्विशौपिकम् । संख्यान्ताद् द्विगोर्लुपं नेच्छन्त्येके || क्यङ्मानिपित्तद्धिते ॥ ३ । २ । ६० ॥ परतः स्त्री पुंवदनूङ् । श्येतायते । दर्शनीयमानी । पञ्चगर्गः ॥ नवाऽणः ॥ ६ ॥ ४ | १४२ ॥ द्विगोः परस्यार्हदर्थे पिल्लुव न तु द्विः । द्विसहस्रम् । द्विसाहस्रम् ॥ सुवर्णकार्षापणात् । ६ । ४ । १४३ ॥ द्विगोः परस्यार्हदर्थे प्रत्ययस्य वा लुप् न तु द्विः । द्विसुवर्णम् । द्विसौवर्णिकम् । द्विकार्षापणम् । द्विकापणिकम् । द्विप्रति । द्विप्रतिकम् ॥ द्वित्रिबहोर्निष्क विस्तात् || ६ | ३ | १४४ द्विगोराईदर्थे प्रत्ययस्य लुब् वा न तु द्विः । द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम | बहुनिष्कम | बहुनैष्किकम । द्विविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । बहुविस्तम् । बहुवैस्तिकम् || शताद्यः || ६ |४ | १४५ ॥ द्विगोरार्हदर्थे वा । द्विशत्यम् । द्विशतम् ॥ शाणात् । ६ । ४ । १४६ ॥ द्विगोराईदर्थे यो वा । पश्चशाण्यम् । पञ्चशाणम् ॥ द्वित्र्यादेर्याण वा ॥। ६ । ४ । १४७ ॥ शाणान्तात् द्विगोरार्हदर्थे । वाग्रहणमुत्तरत्र वा निवृयम् । द्विशाण्यम् । द्वैशाणम् । द्विशाणम् । त्रिंशाष्यम् । त्रैशाणम् । त्रिशाणम् ॥ पणपादमाषाद्यः ॥। ६ । ४ । १४८ ॥ द्विगोरार्हदर्थे यः । विधानसामर्थ्यान लुप् । द्विपण्यम् । द्विपाद्यम् । अध्यर्धमाध्यम् ॥ खारीकाकणीभ्यः कच् || ६ । ४ । १४९ ॥ एतदन्ताद् द्विगोराभ्यां चादर्थे कच् । द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ मूल्यैः क्रीते ॥ ६ । ४ । १५० । यथोक्तं प्रत्ययाः । प्रास्थिकम् । त्रिंशकम् वृत्तौ संख्याविशेषानवगमाद् द्विवचन बहुवचनान्तान्न । मस्थाभ्यां मस्थैर्वा क्रीत