________________
XALAUKSER
मिति । यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । माषिकम् ॥ अर्धात्परिमाणस्थानतो वा त्वादेः॥ ७।४।२०॥ णिति तद्धिते स्वरेण्यादेः स्वरस्य वृद्धिः। अर्धकौडविकम् । आर्द्धकौडविकम । अनत इति किम् ?। अर्धपस्थिकम् । आर्द्धपस्थिकम् । आदिविकल्प उत्तरवृद्धयनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिः स्यादेव । तेनार्धखारीभार्य इत्यत्र पुंवद्भावो न ॥ तस्य वापे ।। ६।४।१११॥ यथोक्तमिकणादयः । प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥६।४।१५२ ॥ षष्ठयन्ताद्यथोक्तमिकण् । वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ॥ हेतौ संयोगोत्पाते ॥६।४। १५३ ॥ षष्ठयन्तायथोक्तं प्रत्ययाः । शत्यः । शतिको दातृसंयोगः। सौमग्रहणिको भूमिकम्पः ॥ पुत्राधेयौ ॥ ६।४।१५४ ॥ षष्टयन्ताडेतौ चेद्धेनुः संयोग उत्पातो वा । पुत्र्यः। पुत्रीयः॥ द्विस्वरब्रह्मवर्चसायोऽसंख्यापरिमाणाश्वादेः ॥६।४।१५५ ॥ - ट्यन्ताद्धेतौ संयोगोत्पाते । धन्यः । ब्रह्मवर्चस्यः । गव्य इति तु गोस्वरे य इति भविष्यति । संख्यादिवर्जन किम् ? । पञ्चकः । मास्थिकः । आश्विकः ।गाणिकः॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चात्र ॥ ६।४ । १५६॥ षष्ठयन्तात्तस्य हेतुः संयोगोत्पात इति विषये । पार्थिवः । सार्वभौमः । ईशो शातः संयोगोत्पातरूपो हेतुर्वा ॥ लोकसर्वलोका. ज्ज्ञाते।६।४ । १५७ ॥ षष्ठयन्तादिकण । लौकिकः । सार्वलौकिकः ॥ तदबास्मै वा वृद्धयायलाभोपदाशुल्कं देयम् ॥६।४ । १५८ ॥ यथोक्तं प्रत्ययः॥ वृद्धिः, पञ्चकं शतम् । आयः, पञ्चको ग्रामः । लाभः, पश्चकः। पटः । उपदा लञ्चा, पञ्चको व्यवहारः । शुल्कम, पञ्चकं शतम् । एवं शत्यं शतिकम् । पञ्चको देवदत्तः। वृद्धयादिग्रहण किम् ? । पश्चमूल्यमस्मिन्नस्मै वा दीयते ॥ पूरणा दिकः ॥६।४।१५९ ॥ प्रथमान्तादस्मिनस्मै वा दीयते इत्यर्थयोः प्रथमान्तं दृद्धयादि । इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृयादि देयम् । द्वितीयिकः। अर्षिकः॥ भागाधेको ॥६। ४ । १६० ॥ तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमिति विषये । भाग्यः । भागिकः ॥
RECAKKES
RESUGG