________________
हेमप्रभा .
॥ २५ ॥
१०९ ॥ अनित्क्याप्परे वा इः । द्विके २ । एषका । एषिका । कृतपत्खनिर्देशा नेह । एतिके । एतिकाः । साहचर्यात् सदेरेव ग्रहणान्नेह । इच्छतीति एषिका । सूतिका । सूतका । पुत्रिका । पुत्रका । अत एव निर्देशात् ङन्यभावः । वृन्दारिका । वृन्दारका । आप्परे इति किम् । अनेषका । अद्वके ॥ वौ वार्तिका ॥ २ । ४ । ११० ।। वेत्वं निपासते । वर्त्तिका २ । वेरन्यत्र वर्त्तिका ।। अस्यायत्तत्क्षिपकादीनाम् ।। २ । ४ । १११ ।। अनित्क्याप्परे इः । वेति निवृत्तम् पृथग्योगात् । कारिका । अनिदिति पर्युदासात् शका । यदादिवर्जनं किम् । यका । सका । क्षिपका | बहुवचनमाकृतिगणार्थम् ॥ नरिका मामिका || २ | ४ | ११२ ॥ इत्वं निपात्यते । कस्याप्रत्ययसम्बन्धित्वात् पूर्वेणाप्राप्ते वचनम् ॥ तारकावर्णकाष्टकाज्योतिस्तान्तवपितृदेवत्ये ।। २ । ४ । ११३ ॥ निपात्यन्ते । अन्यत्र तारिका, वर्णिका, अष्टिका खारी ॥ गौरादिभ्यो मुख्यान्ङीः ॥ २ । ४ । १९ ॥ खियाम् । मुख्यादित्यधिकारोऽयम् । गौरी । शबली । अनड्वाही । अनडही । बहुवचनमाकृतिगणार्थम् । मुख्यादिति किम् । बहुनदा भूमिः ॥ मत्यस्यस्य यः ॥ २ । ४ । ८७ ॥ ङयां लुक् । मत्सी । कथं मात्सी । ङिनिमित्तादेशस्यापि ङीग्रहणेन ग्रहणात् ॥ व्यञ्जनात्तद्धितस्य ॥ २ । ४ । ८८ ।। यो उन्यां लुक् । मनुषी । तद्धितस्येति किम् । वैश्यी ॥ अणञेये कण्नञ्चटिताम् ॥ २ । ४ । २० ॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां ङीः । औपगवी । औत्सी । शिलेयी । सौपर्णेयी । आक्षिकी। स्त्रैणी । पौंस्त्री । जानुदनी । साहचर्येण प्रत्ययग्रहणादागमटितो न भवति । पठिता विद्या । स्वनंघयीत्यादौ तु धातोष्टित्त्वस्यानन्यार्थत्वाद् भवति । मुख्यादिति किम् । बहुकुरुचरा नगरी ॥ वयस्यनन्त्ये ॥ २ । ४ । २१ ॥ अदन्तान्नाम्नः स्त्रियां ङीः । कुमारी । तरुणी । अनन्त्य इति किम् । वृद्धा । द्विवर्षेत्यादौ त्वर्थाद् वयो गम्यते ॥ द्विगोः समाहारात् ।। २ । ४ । २२ || अदन्तानाम्नः स्त्रियां ङीः । पञ्चपूली । दशराजी । त्रिफलेत्यजादौ ॥ " पात्रादिवर्जितादन्तोचरपदः समाहारे । द्विगुरभावन्तान्तो वान्यस्तु सर्वो नपुंसकः " ॥ १ ॥ परिमाणात्तद्धितलुक्यविस्ताचितकम्बल्यात् ॥ २ । ४ । २३ ॥ द्विगोरद
स्त्री
प्रत्ययाः
॥ २५ ॥