________________
ङीः । उत्तरत्रोपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः । बहुराज्ञ्यौ । बहुराजानौ । बहुराजे ॥ नान्नि ॥ २ । ४ । १२ ।। अनन्ताद् बहुव्रीहेः स्त्रियां नित्यं ङीः । अधिराशी नाम ग्रामः । अयमपि उपान्त्यलोपिन एव विधिः ॥ नोपान्त्यवतः ॥ २ । ४ । १३ ॥ अनन्वाद्बहुव्रीहेः स्त्रियां ङीः । सर्वापवादः । सुपर्वा । बहुव्रीहेरित्येव । अतिपर्वणी । नात्र रः । अव्युत्पत्तिपक्षाश्रयणात् ॥ मनः ॥ २ । ४ । १४ ॥ नाम्नः खियां ङीर्न । सीमा । सीमानौ । अनिनाभिति न्यायेनातिमहिमेत्यादावपि ङीप्रतिषेधः । बहुव्रीहेरिति निवृत्तं योगविभागात् ॥ ताभ्यां वापू डित् ॥ २ । ४ । १५ ॥ मन्नन्तादनन्ताच बहुव्रीहेः स्त्रियां वाप् स च डित् । सीमे । सीमानौ । सुपर्ने । सुपर्वाणो ॥ अजादेः ॥ २ । ४ । १६ ।। तस्यैव स्त्रियामाप् । बाधकबाधनार्थमनकारायै च वचनम् । अजा । बाला । ज्येष्ठा । पूर्वापहाणा । अपरापहाणा | त्रिफला | क्रुश्वा । तस्यैवेति किम् । पश्चाजी । अत एव ज्ञापकात् स्त्रीमकरणे तदन्तादपि भवति । तेन परमाजा । अतिभवतीत्यादि भवति ॥ ऋचि पादः पात्पदे ।। २ । ४ । १७ ।। आवन्तस्य कृतपाद्भावपादस्य ऋच्यर्थे स्त्रियां पात्पदेति निपात्यते । त्रिपात् । त्रिपदा । ऋचि किम् । द्विपदी । द्विपाद् ॥ आत् ॥ २ । ४ । १८ ॥ नाम्नः स्त्रियामाप् । । खट्वा । या । सा ॥ इच्चापुंसोऽनित्क्याप्परे ॥ २ । ४ । १०७ ।। विहितस्यापो ह्रस्वो वा । खविका । खट्वा । खट्वाका । अपुंस इति किम् । सर्विका । निद्वर्जनं किम् । दुर्गका । आवेव परो यस्मादिति किम् । अतिभयस्वट्वाका । विहितस्येति किम् | अखद्विका । अत्र नित्यमिखम् । कचि तु रूपत्रयम् ॥ स्वज्ञाजभस्त्राघातुत्ययकात् ॥ २ । ४ | १०८ ॥ आपोऽनित्क्याप्परे इव । स्विका स्वका ज्ञातिः । ज्ञातिधनाख्यायामसर्वादित्वादको ऽभावे कः । आत्मीयायां तु. नित्यमित्वम् । निःस्विका । निःस्वका । ज्ञिका । शका । अजिका २ । भखग्रहणं स्त्रीपुंससाधारणार्थम् । अभविका २ । आर्यिका २ । चटकिका २ । धातुसवर्जनात् सुनयिका । सुपाकिका । इहत्यिका । वहपत्यिका । इत्यत्र न त्वमत्ययः । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् । शुष्किकेत्यत्र कस्यासत्त्वान्न विकल्पः ॥ द्वेपसूतपुत्रवृन्दारकस्य ॥ २ । ४ ।