________________
G
BBCHCRORESEARSHA
कादशान्यिकः । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादशरूपिकः॥ भक्ष्यं हितमस्मै ॥ ६।४।६९ ॥ इकण् । आपूपिकः ॥ नियुक्तं दीयते ॥६।४ । ७० ॥ प्रथमान्ताचतुर्थ्यर्थ इकण । तचेन्नियुक्तमव्यभिचारेण नित्य वा दीयते । आग्रभोजनिकः ॥ श्राणामांसौदनादिको वा ।।६।४। ७१ ॥ तदस्मै नियुक्तं दीयते इति विषये । श्राणिका । मांसौदनिका । पक्षे इकण् । श्राणिकी । मांसौदनिकी । अन्ये त्विकं नेच्छन्ति ॥ भक्तौदनाबाणिकट ॥६। ४ । ७२ ॥ तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । ओदनिकी । भाक्तिकः । औदनीकः ॥ ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ नवयज्ञादयोऽस्मिन् वर्तन्ते ॥६।४।७३ ॥ इकण । नावयज्ञिकः । पाकयज्ञिकः॥ तत्र नियुक्ते ॥६। ४ । ७४ ॥ इकण् । शौल्कशालिकः । दौवारिकः ॥ अगारान्तादिकः ॥ ६।४।७५ ॥ | तत्र नियुक्ते । देवागारिकः। अदेशकालादध्यायिनि ॥ ६ । ४ । ७६ ॥ सप्तम्यन्तादिकण ।। आशूचिकः । सानिध्वकः । अदेशकालादिति किम् ? । स्वाध्यायभूमावध्यायी ॥ निकटादिषु वसति ॥६।४। ७७ ॥ इकण् । नैकटिकः । आरण्यिको भिक्षुः । वासंमूलिकः ॥ सतीर्थ्यः॥ ६।४ । ७८ ॥ समानतीर्थात्तत्र वसत्यर्थ यो निपात्यते समानस्य च सभावः । सतीर्थ्यः॥ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ॥६। ४ । ७९॥ इकण् । प्रास्तारिकः । सांस्थानिकः । कांस्यप्रस्तारिकः । गौसंस्थानिकः । वांशकठिनिकः । बहुवचन कठिनान्तेति स्वरूपग्रहणव्युदासार्थ रूढयर्थं च । प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति ॥ संख्यादेश्चाहंदलुचः॥६।४ । ८० ॥ वक्ष्यमाणः प्रत्ययः स्यात् । चान्द्रायणिकः । द्वैचन्द्रायणिकः । संख्यादेरिति किम् ! । परमपारायणमधीते । चकारः केवलार्थः । आईदित्यत्राकारोऽभिविधौ । तेनाईदर्थेऽपि भवति । द्विसाहस्रः। अलुच इति किम् ? । द्विशूर्पण
क्रीतेन क्रीतं द्विशौर्पिकम् ॥ गोदानादीनां ब्रह्मचर्य ॥ ६ ॥ ४॥ ८१॥ इकण । गौदानिकम् । आदित्यवतिकम् | Fi चन्द्रायणं च चरति ॥ ६ । ४ । ८२ ॥ अस्माद् द्वितीयान्ताद् गोदानादेश्च श्वरत्यर्थे इकण् । चान्द्रायणिकः ।
AUGEEGLEAGUGUGUARAN