________________
गौदानिकः ॥ देवत्रतादीन् डिन् । ६ । ४ । ८३ ।। चरति । देवत्रती । महाव्रती ॥ डकचाष्टाचत्वारिंशतं वर्षाणाम् ।। ६ । ४ । ८४ ॥ चरत्यर्थे डिन् । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ॥ चातुर्मास्यं तौ यलुक् च ।। ६ । ४ । ८५ ।। चरति । चातुर्मासकः । चातुर्मासी ॥ क्रोशयोजनपूर्वाच्छतायोजनाच्चाभिगमाई ।। ६ । ४
॥८६॥ पञ्चम्यन्तादिकण् । कौशशतिको मुनिः। यौजनशतिकः । यौजनिको दूतः ॥ तथात्येभ्यः || ६ । ४ । ८७ ॥ इकण् । क्रौशशतिकः । यौजनशतिकः । यौजनिको दूतः ॥ पथ इकट् ॥ ६ । ४ । ८८ ॥ यात्यर्थे । पथिकी । द्विपथिकी | कटमकृत्वा इकड्वचनं परत्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ॥ नित्यं णः पन्थश्च ॥ ६ ॥ ४ । ८९ ।। पथो याति । पान्थः । द्वैपन्थः ॥ शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च । ६ । ४ । ९० ॥ पथिन्नन्ताद् याति चार्थे इकण् । शाङ्कपथिकः । औत्तरपथिकः । कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जाङ्गलपथिकः ॥ स्थलादेर्मधुकमरिचेऽण् ॥। ६ । ४ । ९१ ॥ पथिन्नन्तादाहृते । स्थालपथं । मधुकं मरिचं वा । मधुकमरिच इति किम १ । स्थालपथिकमन्यत् ॥ तुरायणपारायणं यजमानाधीयाने ॥ ६ । ४ः ॥ ९२ ॥ यथासंख्यमिकण् । तौरायणिकः । पारायणिकः ॥ संशयं प्राप्ते ज्ञेये ॥। ६ । ४ । ९३ ॥ इकण् । सांशयिकोऽर्थः । ज्ञेय इति किम ।। संशयितरि मा भूत् ॥ तस्मै योगादेः शक्ते ॥ ६ ॥ ४ ॥ ९४ ॥ इक | यौगिकः । सान्तापिकः ॥ योगकर्मभ्यां योकनौ । ६ । ४ । ९५ ॥ चतुर्थ्यन्ताभ्यां शक्ते । योग्यः । कार्मुकम् ॥ यज्ञानां दक्षिणायाम् ॥। ६ । ४ । ९६ ॥ इकण । आग्निष्टोमिकी ॥ तेषु देये ॥। ६ । ४ । ९७ ॥ यज्ञार्थेभ्यः सप्तम्यन्तेभ्यो देये इकण् । आग्निष्टोमिकम् । वाजपेयिकं भक्तम् ॥ काले कार्ये च भववत् । ६ । ४ । ९८ ।। देये प्रत्ययः । यथा वर्षासु भवं वार्षिकम् । तथा कार्य देयं च । प्रत्ययस्य भावोऽत्रातिदिश्यते । नाभाव इति द्विगोः परस्य लुब्न | द्वैमासिकम् ॥ व्युष्टादिष्वण् ।। ६ । ४ । ९९ ॥ देये कार्ये च । वैयुष्टम् । नैत्यम् || बहुवचनादाकृतिगणो