________________
ANIMAL
HEAS%25ASI-ASE
शिष्याः । हास्तिपदाः । णित्वं ड्यथै पुंवद्भावाभावार्थ च । कौपिजलीस्थूणः ॥ संघघोषाङ्कलक्षणेऽञ्यवित्रः॥ ६।३३१७२॥ गोत्रार्यात्तस्येदमित्यर्थेऽण् । बेदः सङ्घादिः । बैदं लक्षणम्। एवं गार्गः।गार्गम् । दाक्षः । दाक्षम् | लक्ष्यस्यैव स्वं लक्षणम् । यथा शिखादि । स्वामिविशेषविज्ञापकोऽङ्कः स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वम् ॥शाकलादक च ।।६।३।१७३॥ तस्येदमित्यर्थे सङ्घादावण् । शाकलकः । शाकलः । सङ्घादिः। शाकलकम् । शाकलं लक्षणम् ॥गृहेऽग्नीधोरण धश्च ॥६।३ । १७४ ॥ तस्येदमर्थे । आग्नीध्रम् ॥ रथात्सादेश्च वोटुङ्गे ॥६।३ । १७५॥ तस्येदमित्यर्थे प्रत्ययः। रथ्योऽश्वः । रथ्यं चक्रम् । द्विरथोऽश्वः । द्विरयं चक्रम् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति तन्मते द्विरथ्यः । आश्वरथं चक्रम् । बोने एवेति नियमादन्यत्र वाक्यमेव ॥ यः॥ ६।३ । १७६ ॥ रथात्सादेव तस्येदमथे। रथ्यः । द्विरथः । पत्रपूर्वाद ॥६।३ । १७७॥ रथात्तस्येदमर्थे । पत्रं वाहनम् । आश्चरथं चक्रम् ॥ वाहनात् ॥ ६ । ३ । १७८ ॥ तस्येदमर्थेऽञ् । औष्ट्रो रथः । हास्तः ॥ वाह्यपथ्युपकरणे ॥६।३ । १७९ ॥ वाहनादुक्तः प्रत्ययो वाह्यादाषेव । आश्वो रथः । पन्था वा । आश्वं पल्ययनम् । आश्वी कसा । अन्यत्र तु वाक्यमेव । अश्वानां घासः ॥ वहेस्तुरिश्चादिः ॥ ६ । ३ । १८० ॥ तस्येदमर्थेऽञ् । सांवहित्रम् ॥ तेन प्रोक्ते ॥६। ३।१८१ ॥ यथाविहितं प्रत्ययः । प्रकर्षण व्याख्यातमध्यापितं वा प्रोक्तं न तु कृतम् । भाद्रबाइवान्युत्तराध्ययनानि । गणधरमत्येकयुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । पाणिनीयम् । बार्हस्पत्यम् ॥ कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसबह्मचारिपीठसर्पिसूकरसमसुपर्वणः ॥७।४।६२ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलुक् । कालापाः । कौथुमाः । तैतलाः । जाजलाः। काङ्गलाः। शैखण्डाः । शैलालाः । साब्रह्मचाराः। पैठसाः। सौकरसद्याः । सौपर्वाः ॥मौदादिभ्यः॥६।१८२॥ तेन प्रोक्ते यथाविहितमण । मौदेन प्रोक्तं वेद विदन्त्यधीयते वा मौदाः।वेदेन्ब्राह्मणमत्रैवेति नियमात् वेदिबध्येविषय एवाण । पैष्पालादाः ॥कठादिभ्यो वेदे लप्॥६॥१८॥
UMAMALADAK