SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ वीरेषु | कौलोsन्यत्र ॥ समुद्रान्नृनावोः ।। ६ । ३ । ४८ ॥ देशार्थाच्छेषेऽकन । सामुद्रको ना । सामुद्रिका नौः । | सामुद्रमन्यत् ॥ नगरात्कुत्सादाक्ष्ये ॥ ६ । ३ । ४९ ।। देशार्थाच्छेषेऽकन । चौरा हि नागरकाः । दक्षा हि नागरकाः । नागरोऽन्यः । संज्ञाशब्दात्तु कत्र्यादिपाठादेयकञ । नागरेयकः । कच्छाग्निवक्त्रवत्तत्तरपदात् ॥ ६ । ३ । ५० ॥ देशार्थाच्छेषेऽकन । भारुकच्छकः । काण्डाग्नकः । एन्दुवक्त्रकः । बाहुवर्त्तकः । उत्तरपदग्रहणमबहुप्रश्ययपूर्वार्धम् ॥ अरण्यात्पथिन्यायाध्यायेभनरविहारे ।। ६ । ३ । ५१ ॥ देशार्थाच्छेषेऽकत्र | आरण्यकः । पन्या न्यायोsध्याय इभोविहारो वा ॥ गोमये वा ।। ६ । ३ । ५२ ॥ अरण्याद्देशार्थाच्छेषेऽकन । आरण्यका गोमयाः । आरण्या वा । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति । एके तु नरवर्ज पूर्वसूत्रेऽपि विकल्पमाहुः ॥ कुरुयुगन्धराद्वा||६ | ३ |५३॥ देशार्थाच्छेषेऽकन् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । साल्बाङ्गोयवाग्वपत्तौ ॥ ६ । ३ । ५४ || देशार्थान्मनुष्ये शेषेऽकञ् । साल्वको गौः । साल्विका यवागूः । साल्वको ना । गोयवागूग्रहणं प्रतिप्रसवार्थम् । नरि नियमार्थमपत्तिग्रहणम् ॥ कच्छादेनृनृस्ये ।। ६ । ३ । ५५ ।। देशार्थाच्छेषेऽकय् । काच्छको ना काच्छकमस्य स्मितम् । सेन्धवकः ॥ कोपान्त्याचाण । ६ । ३ । ५६ ।। कच्छादेर्देशार्थाच्छेषे । भार्षिकः । | काच्छः | सैन्धवः ॥ गर्त्तोत्तरपदादीयः ॥ ६ । ३ । ५७ ॥ देशार्थाच्छेषे । श्वाविद्गर्त्तीयः ॥ कटपूर्वात्प्राचः ।। ६ । ३ । ५८ ॥ देशार्थाच्छेषे ईयः । कटग्रामीयः ॥ कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाद्दोः ॥ ६ । ३ । ५९ ।। देशार्थाच्छेषे इयः । आरोहणकीयः । कौटशिखीयः । दाक्षिकन्थीयः । दाक्षिगलदीयः । दाक्षिनगरीयः । माहकिग्रामीयः । दाक्षिहृदीयः । दोरिति किम् ? । आर्षिकः । माडनगरः ॥ पर्वतात् ॥ ६ ॥ ३ ॥ ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा || अनरे वा || ६| ३ | ६१ || पर्वतादेशार्थादीयः । पर्वतीयानि पार्वतानि फलानि ॥ पर्णकृकणाद्भारद्वाजात् ||६ | ३ |६२ || शेषे ईयः । पर्णीयः । कृकणीयः । भारद्वाजादिति किम् ? । पार्णः कार्कणः ॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy