________________
तद्धि
प्रक०
CELECIASCCASION
त्येव । दैवदत्तिका । देवदत्तिकी ॥ वाहीकेषु ग्रामात् ॥६।३।३६ ॥ दोः शेषे णिकेकणौ ॥ कारन्सपिका । कारन्तपिकी ॥ एदोद्देश एवेयादौ ॥६।१।८॥ देशार्थस्यैव यस्य स्वराणामादिरेदोच्च स ईयादौ विधातव्ये दुः। सैपुरिकः । स्कौनगरिका । स्कौनगरिकी ॥ बोशीनरेषु ॥६।३ । ३७ ।। ग्रामार्थाद्दोः शेषे णिकेकणौ । आह्वजालिका । आह्वजालिकी । आह्वजालीयः ॥ वृजिमद्राद्देशात्कः॥६।३।३८ ॥ शेष । राष्टाकोऽपवादः । वृजिकः । मद्रकः । सुमद्रकः । इत्यादि । उवर्णादिकण ॥६।३।३९॥ देशवाचिनः शेषे । अणोऽपवादः । परत्वादीयणिकेकणोऽपि बाधते । शाबरजम्बुकः॥ दोरेव प्राचः॥६।३।४०॥ उवर्णान्तादिकण् । आषाढजम्बुकः । पूर्वेणैव सिद्धे, नियमार्थ वचनम् । तेनेह न । माल्लवास्तवः । एवकार इष्टावधारणाथः । दो पाच एवेति नियमो मा भूत् ॥ईतोऽकञ् ।।६।३। ४१ ॥ पाग्देशवाचिनो दोशेषे । काकन्दकः ।। रोपान्त्यात् ॥६।३।४२ ॥ प्राचो दोः शेषेऽकञ् । पाटलिपुत्रकः ॥ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६।३।४३॥ देशहत्तेर्दोः शेषेऽकञ् । धन्वन् शब्दो मरुदेशवाची । मालामस्थकः । नान्दीपुरकः । पैलुबहकः । सांकाश्यकः । पारेधन्वकः । अपारधन्वकः ॥ राष्ट्रेभ्यः ॥६।३।४४ ॥ दुभ्यः शेषेऽक । आभिसारकः । आद. शकः । बहुवचनमकत्रः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति । अभिसारगर्तकः ॥ वहुविषयेभ्य ॥६।३।४५॥ राष्ट्रेभ्यः शेषेऽका । आङ्गकः। विषयग्रहणमनन्यत्र भावार्थम । तेन य एकत्वद्विचयोरपि वर्तते ततो माभूत् । वार्तनः ॥ सुसर्वार्धाद्राष्ट्रस्य ॥ ७॥ ४ ॥ १५ ॥ उत्तरपदस्य मिणति तखिते स्वरेष्वादेः स्वरस्यं वृद्धिः । सुपाञ्चालकः । सर्वपाश्चालक । अर्धपाञ्चालकः ॥ अमद्रस्य दिशः॥७।४ । १६॥ राष्टस्य मिति तन्हिते स्वरेष्वादेः स्वरस्य वृद्धिः । पूर्वपाश्चालकः । अपरपाश्चालकः ॥ धूमादेः॥६।३। ४६ ॥ देशवृत्तेः शेषेऽकञ् ।। धौमकः । पाडण्डकः । सौवीरेषु कूलात् ॥ ६।३। ४७ ॥ शेषेऽकञ् । कौलकः सौ
LADEGUSARMOLECTEGLECREGLECOM