________________
HOSAROBARE-1534505
ब्देभ्यो जनपदस्येति तदन्त विधेः । तेन सुपाञ्चालक इत्यादि सिद्धम् ॥ उदग्ग्रामाद्यकृल्लोम्नः॥६।३।२५ शेषेऽत्र । याकृल्लोमः । उदग्ग्रामादिति किम् ? । अन्यस्मादण् । याकृल्लोमनः ॥. गोष्ठीतकीनकेतीगोमतीशूरसेनवाहीकरोमकपटचरात् ॥ ६।३ । २६ ॥ शेपेऽञ् । गौष्ठः । तैकः । नैकेता गौमतः । शौरसेनः । वाहीकः । रौमकः । पाटच्चरः॥ शकलादेर्यत्रः ॥६।३ । २७॥ शेषेऽन् । शाकलाः । काष्ठाः । यत्र इति किम् ? । शाकलीयम् ॥ वृद्धः ॥ ६।३ । २८ ॥ शेषेऽ । दाक्षाः । वृद्धेति किम् ?। सौतङ्गमीयः॥ न द्विस्वरात्प्राग्भरतात् ॥६।३।२९ ॥ वृद्धअन्ताद । चैङ्कीयाः । काशीयाः। द्विस्वरादिति किम् ? । पानागाराः। प्राग्ग्रहणे भरतानामग्रहणात्स्वशब्देन ग्रहणम् ॥ भरतोरिकणीयसौ ॥६।३।३०॥ शेषे । भावत्कम् । भवदीयम् । उकारान्तग्रहणाच्छत्रन्तान । भावतम् ॥ परजनराज्ञोऽकीयः॥ ६।३।३१॥ शेषे । परकीयः। जनकीयः । राजकीयः । अकारः पुंवद्भावार्थः । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां सौवं दैवमायुरित्यादि न सिध्यति । स्वकीयं देवकीयमिति तु स्वकदेवकयोगहादित्वात् सिद्धम् ॥ संज्ञा दुर्वा ॥६॥१६॥ या संज्ञा संव्यवहाराय हठानियुज्यते सा दुसंज्ञा वा ॥ त्यदादिः ॥६।१।३॥ दुः॥माग्देवो ॥६।१।१०॥ माग्देशार्थस्य यस्य स्वराणामादिरेदोद्धा स इयादौ विधेये दुः। देश एवेतिनियमनिवृत्यर्थं वचनम् ॥ दोरीयः॥६।३। ३२ ॥ शेषे । देवदत्तीयः । तदीयः । शालीयः । मालीयः । एणीपचनीयः । गोनीयः । दोरिति किम् ! । साभासन्नयनः॥ उष्णादिभ्यः कालात् ॥ ६॥३॥ ३३ ॥ शेषे ईयः । उष्णकालीयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ व्यादिभ्यो णिकेकणी ।।६।३।३४ ॥ कालाच्छेषे । उभयोः स्त्रियां विशेषः । वैकालिका । वैकालिकी। आनुकालिका । आनुकालिकी ॥ काश्यादेः॥६॥३॥३५॥दोः शेषे णिकेकणी । काशिका । काशिकी । चैदिका । चैदिकी ॥ दोरित्येव देवदत्तं नामवाहीकग्रामस्तत्र जातो देवदत्तः । प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भव
AMORCHASECRETIRECRUGR
MOM