________________
बहुवचनं पात्रविशेषपरिग्रहार्थम् ॥ स्थण्डिलाच्छेते व्रती ॥। ६ । २ । १३९ ।। सप्तम्यन्ताद् ययाविहितं प्रत्ययः । स्थाfest भिक्षुः ॥ संस्कृते भक्ष्ये ॥। ६ । २ । १४० ॥ सप्तम्यन्ताद् यथाविहितं प्रत्ययः । भ्राष्ट्रा अपूपाः ॥ शूलोखायः ।। ६ । २ । १४१ ।। सप्तम्यन्ताद् संस्कृते भध्ये शूल्यम् । उख्यं मांसम् ॥ क्षीरादेयण ॥ ॥। ६ । २ । १४२ ।। सप्तम्यन्तात्संस्कृते भक्ष्ये । क्षरेयी यवागूः ॥ दन इकण् ।। ६ । २ । १४३ ॥ सप्तम्यन्तात् संस्कृते भक्ष्ये । दाधिकम् । वोदश्वितः । ६ । २ । १४४ ॥ सप्तम्यन्तात्संस्कृते भक्ष्ये इकण् । उदकेन श्वयति उयश्वित्तक्रम् । तत्र संस्कृतं भक्ष्यमौदश्वित्कम् औदश्वितम् ॥ क्वचित् । ६ । २ । १४५ ॥ अपत्यादिभ्योऽन्यत्रायर्थे यथाविहितं प्रत्ययः । चाक्षुषं रूपम् । आश्वोरथः । साम्प्रतम् । साम्प्रतः ॥ इतिरक्ताद्यर्थकाः ॥
॥ शेषे ॥। ६ । ३ । १ ॥ अधिकारोऽयम् । अपत्यादिभ्योऽन्यस्मिन प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदित व्यम् । इदं विशेषेष्वपत्य समूहादिष्वेयणाद्यभावार्थं प्राग्जितात् कृतादिषु सर्वेष्वर्थेषु प्रत्यया यथा स्युरित्येवमर्थं च शेषवचनम् || नचादेरेय || ६ । ३ । २ । प्राग्जितीये शेषेऽर्थे । नादेयः । वानेयः । शेष इति किम् !। समूहे नादिकम् ॥ राष्ट्रादियः || ६ | ३ | ३ || प्राग्जितीये शेषेऽर्थे । राष्ट्रियः ॥ दूरादित्यः ।। ६ । ३ | ४ ॥ शेषेऽर्थे । दूरेत्यः ॥ उत्तरादाहन् ।। ६ । ३ । ५ ।। शेषे । औत्तराहः ॥ पारावारादीनः ॥। ६ । ३ । ६ ॥ शेषे ॥ पारावारीणः ॥ व्यस्त त्यस्तात् ॥। ६ । ३ । ७ ॥ पारावाराच्छेषे ईनः ॥ पारीणः । अवारीणः । अवारपारीणः ॥ युप्रागपागुदक्प्रतीचो यः ॥। ६ । ३ । ८ ।। अव्ययानव्ययाच्छेषेऽर्थे । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । कालवृत्तेस्तु माचिकं प्राक्तनम् ॥ ग्रामादीनव् च ।। ६ । ३ । ८ ॥ शेषे यः । ग्रामीणः । ग्राम्यः । अकारः पुंवद्भावप्रतिषेधार्थः । ग्रामीणाभार्यः ॥ कत्र्यादेश् यक ॥। ६ । ३ । १० ।। ग्रामाच्छेषे । कात्रेयकः । पौष्करेयकः । ग्रामेयकः ॥ कुण्डयादिभ्यो घलुक् च ॥ ६ । ३ । ११ ।। शेषे एयकञ् । कौण्डेयकः । कौणेयकः ।
1