SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ हम प्रभा ७५ । क्रमकः । शिक्षकः । मीमांसकः । सामकः ॥ ससर्वपूर्वाल्लुप् । ६ । २ । १२७ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य । सवार्त्तिकः । सर्ववेदः ॥ संख्याकात् सूत्रे । ६ । २ । १२८ ॥ वेश्यधीते वेत्यर्थे प्रत्ययस्य लुप् । अष्टकाः पाणिनीयाः । दशका उमास्वातीयाः । द्वादशका आर्हताः । संख्याग्रहणं किम् ! माहावार्तिकाः । कादिति किम् ? | चतुष्टयाः || प्रोक्तात् || ६ । २ । १२९ ॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्यधीते वेत्यर्थे प्रत्ययस्य लुप । गोतमेन प्रोक्तं गौतमम् । तद्वेश्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्म सौधर्मणं वा । तद्वेश्यधीते वा । सौधर्मः । सौधर्मणः । एवं भाद्रबाहवः । स्त्रियां विशेषः । गौतमा स्त्रीत्यादि ॥ वेदेनब्राह्मणमत्रैव ॥ ६ । २ । १३० ॥ प्रोक्तप्रत्ययान्तं प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः । ब्राह्मणेऽमिन्नन्तस्य नियमनिवृत्यर्थमिन्ब्राह्मणग्रहणम् । उभयावधारणार्थमेवकारः । प्रोक्तप्रत्ययान्तस्याचैव वृत्तिनन्यित्र तथात्र वृत्तिरेव न केवलस्यावस्थानम् । अन्यत्रत्वनियमात् क्वचित् स्वातन्त्र्यम् । अर्हता प्रोक्तमार्हतं शास्त्रम् । क्वचिदुपाध्यन्तरयोगः । आर्हतं महत्सुविहितम् । क्वचिद्वाक्यम् । आईतमधीते । क्वचिद्वृत्तिः । आईत इति । इह पुनर्नियमाद्युगपदेव विग्रहः । कठेन प्रोक्तमधीयते कठा इति ॥ तेनच्छन्ने रथे ॥। ६ । २ । १३१ ॥ तृतीयान्ताद्यथाविहितं प्रत्ययः । वास्त्रो रथः । काम्बलः । द्वैपः । वैयाघ्रः कौमारः पतिरिति तु भवार्थकेऽणि बोध्यम् । धवयोगे तु start भात्यपि ॥ पाण्डुकम्बलादिन् ६ । २ । १३२ ।। टान्ताच्छन्ने रथे । पाण्डुकम्बली रथः ॥ दृष्टे सानि नाम्नि ।। ६ । २ । १३३ ।। टान्ताद्यथाविहितं प्रत्ययः । क्रौञ्चं साम । वाशिष्टम् । कालेयम् ॥ गोत्रादकवत् ॥ ६ । २ । १३४ ॥ टान्ताद् दृष्टे साम्नि प्रत्ययः । औपगवकं साम ॥ वामदेवाद्यः || ६ । २ । १३६ ।। टान्ताद् सानि । वामदेव्यं साम || डिहाणू ।। ६ । २ । १३६ ।। दृष्टे साम्नि । औशनम् । औशनसम् ॥ तत्रोधृते पात्रेभ्यः ॥ ६ ॥ २ । १३८ ।। तत्रेति सप्तम्यन्तात् पात्रार्थादुद्धृते यथाविहितं प्रत्ययः । शाराव ओदनः । ७-७८३७ तद्धि प्रक०
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy