________________
ড
देशे नाम्नि । पान्यायनः । निपातनान्नागमः । वाज्ञायणः ॥ कर्णादेशयनि ॥ ६ । २ । ९० ॥ चातुरर्थिको देशे नाम्नि । कार्णायनिः । वासिष्ठायनिः ॥ उत्करारादेरीयः ।। ६ । २ । ९१ ॥ चातुरर्थिको देशे नाम्नि ॥ उत्करीयः । सङ्करोयः ॥ नडादेः कीयः ॥। ६ । २ । ९२ ॥ चातुरर्थिको दे नाम्नि नडकीयः । प्लक्षकीयः । बिल्वकीया नाम नदी . बिल्वकोयादेरीयस्व ।। २ । ४ । ९३ ।। तद्धितयस्वरे लुक् बैल्वकाः । एवं वैणुकाः बिल्वकोयादेरिति किन ? | नाटकीयः ॥ कुशाश्वादेशेयम् ।। ६ । २ । ९३ । चातुरर्थिको देशे नाम्नि । कार्शाश्वीयः । आरिष्टयः ॥ ऋश्यादेः कः ।। ६ । २ । ९४ । चातुरर्थिको देशे नाम्नि । ऋश्यकः । न्यग्रोधकः ॥ वराहादेः कण् ।। ६ । २ । ९५ ।। चातुरर्थिको देशे नाम्नि । वाराहकः । पालाशकः । कुमुदादेरिकः ॥। ६ । २ । ९६ ॥ चातुरर्थिको देशे नाम्नि | कुमुदिकम् । इवकटिक ॥ अश्वत्थादेरिकण् || ६ । २ । ९७ ॥ चातुरर्थिका देशे नाम्नि | आश्वत्थकम् । कौमुदिकम् सास्य पौर्णमासी ॥। ६ । २ । ९८ ॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययः प्रयमान्तं चेत्यौर्णमासी । पौषो मासोऽर्धमासो वा । माघः । नाम्नीति किम् १ । पौषी पौर्णमासी अस्य पञ्चरात्रस्येति वाक्यमेव ॥ आग्रहायण्यश्वत्थादिकण || ६ । २ । ९९ ॥ प्रथमान्तात् षष्ठयर्थे त चेत् पौर्णमासी नाम्नि । आग्रहायणको मासोऽर्जुमासा वा । आश्वस्थिकः । अन्ये तु अश्वत्थशम्दममत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति ॥ चैत्री कार्त्तिकीफाल्गुनीश्रवणाद्वा ॥ ६ । २ । १०० ॥ सास्य पौर्णमासीत्य.: स्मिन् विषये नाम्निकण् ॥ चैत्रीकः चैत्र मासो ऽर्धमासा वा । एवं कार्त्तिकिकः । कार्त्तिकः । फाल्गुनिकः । फाल्गुनः श्रावणिकः श्रावणः ॥ देवता ६ । २ । १०१ ॥ देवतार्थात्प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः । जैनः । आग्नेयः | आदित्यः ॥ देवतानामात्वादी ॥ ७ । ४ । २८ ।। पूर्वोत्तरपदयोः स्वरेष्वादेर्व्वडिति तडिते । आग्नावैष्णवं सूक्तम् । आत्वादाविति किपू । ब्राह्मनजापत्यम् ॥ आतो नेन्दवरुगस्थ ॥ ७ । ४ । ३९ ॥ पूर्वपदात्प