________________
HOURSA-PURSEX
न्यग्रोधस्य केवलस्य ॥७।४।७॥ यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य बुद्धिमाप्तौ तस्मादेव यः प्रागैत् | द्र णिति तद्धिते । नयग्रोधम् । केवलस्ये ति किम् ? न्याग्रोधमूला: शालयः ॥ जम्ब्वा वा ॥ ६ । २। ६०॥ विकारेऽवयवयोः वा फले । जाम्बवम् । जम्बु । जम्बूः । लुपि स्त्रीनपुंसकते ॥ न बिरद्वयगोमयफलात् ।। ६। २.६१। विकाराऽवयवोः प्रत्ययः । कापोतस्य विकाराऽवयवो वेति न मयट । अदुवयेत्यादि किम् ! द्रौवयं खण्डम् । गौमयं भस्म . कापित्योरसः ॥ पितृमातुव्य डलं भ्रातरि ॥६।२।६. ॥ यथासंख्यम् । पितृव्यः । मातुलः ॥ पित्रोर्डामहट् ॥ ६।२। ६॥ पितृमातुः । पितापहः । पितामही । मातामहः । मातामही ॥ अवेटुग्धे सोढदूसमरीमम् ॥६।२।६४॥ अविसोढम् । अविद्सम् । अविमरीसम् ॥ राष्ट्रेऽनकादिभ्यः ॥ ६।२।६५॥ षष्ठयन्तेभ्योऽण् । शैवम् । अङ्गादिवजनं किम् ? । अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ।। केचित्तु अङ्गादिप्रतिषेधं नेच्छन्ति ॥ राजन्यादिभ्योऽक ॥६।२।६६॥ राष्ट्र । राजन्यकम् । दैवयातवकम् ॥ वसातेवा ॥६।२।६७॥ राष्ट्र कञ् । वासातकम् । वासातम् ॥ भौरिक्यैषुकार्यादेविंधभक्तम् ॥ ६।२।६८॥ राष्ट्रे यथासङ्ख्यम् । भौरिकिविधम् । भौलिकिविधम् । एषुकारिभक्तम् । सारसायनभक्तम् ॥ निवासादूरभवे इति देशे नाम्नि ॥ ६ । २ । ६९ ॥ षष्ठयन्ताद्ययाविहितं प्रत्ययः । इतिकरणो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयं न सङ्गीते । आर्जुनावः । शैवम् । वैदिशं पुरम् ॥ तत्रास्ति ॥६॥ २। ७०॥ तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः। प्रथमान्तं चेदस्तीति प्रत्ययान्तश्चेदेशनाम् । अत्रापीति करणोऽनुवर्तते । तेन प्रसिद्ध नाम्नि भूभादौ चार्थे भवति । अत एव चोभयप्राप्ती परोऽपि मत्वर्थीयोऽनेन बाध्यते । औदुम्बरं नगरम् ॥ तेन निर्वते च ॥६।२।७१ ॥ तेनेति तृतीयान्तानि तेऽथै देशे नाम्नि यथाविहितं प्रत्ययः । कौशाम्बी नगरी । चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्यर्थः । नयाँ मतुः ॥ ६ । २ । ७२ ॥
CONCEREMOCRACINGERY