SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रक० HOCIEDOGEOGR तृणसोमबल्बजात् ॥ ६।२।४७ । अभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयट् । शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । बल्वजमयम् ॥ एकस्वरात् ॥६।२।४८॥ नाम्नोऽभक्ष्याच्छादने विकारेऽवयवे च नित्यं मयत् । वाङ्मयम् ॥ दोरमाणिनः ॥ ६॥ २॥ ४९ ॥ अभक्ष्याच्छादने विकारेऽवयवे च मयट् । आम्रमयम् । अमाणिन इति किम् ? । शौवाविधम् । श्वाविन्मयम् ॥ गोः पुरीषे ॥६॥२ ० ॥ नित्यं मयट । गोमयम् । पयस्तु गव्यम् । पुरीपे नियमार्थ वचनम् ॥ बोहेः पुरोडाशे ६।२।५१॥ विकारे नित्यं मयट । ब्रीहिमयः पुरोडाशः। पुरोडाश इति किम् ? । ह ओहनः । वेहं भस्म ॥ तिलयवादनाम्नि ॥६॥२॥५२॥ विकारेऽवयवे च मयट । तिलमयम् । यवमयम् । अनाम्नीति किम् ? । तैलम् । यावः ॥ पिष्टात् ६।२।५३॥ विकारेऽनाम्नि मयट् । पिष्टमयम् ॥ नाम्नि कः ६ । २।५४ ॥ पिष्टाद्विकारे । पिष्टिका ॥ योगोहादीन हियडन्गुश्चास्य ।। ६।२।५५॥ विकारे नाम्नि ।हैयङ्गवीनं नवनीतं घृतं वा । नाम्नोत्येव । यौगोदोहं तक्रम् ॥ अपो यञ् वा ॥६।२।५६ ॥ विकारे । आप्यम् । अम्मयम् ॥ लुब्बहुलं पुष्पमूले ॥६।२।५७ ॥ विकारावयवार्थस्य प्रत्ययस्य ॥ यदेगौंणस्याक्विपस्तडितलुक्यगोणीसूच्योः २।४।८५ लुक् । सप्तकुमारः। पश्चन्द्रः । पञ्चयुवा । द्विपङ्गुः 1गौणस्येति किम् ? । अवन्ती । अक्विप इनि किम् ! | पञ्चकुमारी। अगोणीसूच्योरिति किम् ?। पश्चगोणिः । दशमूचिः ॥ अनेन स्त्रीप्रत्ययनिवृतौ " हरीतक्यादिप्रकृतिन लिङ्गमतिवर्त्तते " इति लुबन्तस्य स्त्रीत्वात पुनः स्त्रीमत्ययः । मल्लिका पुष्पम् । विदारी मूलम् । क्वचिन्न । वारणानि पुष्पाणि । ऐरण्डानि मूलानि । क्वचिद्विकल्पः । शिरीषाणि शैरीपाणि पुष्पाणि । हीराणि हैवेराणि मूलानि । क्वचिदन्यत्रापि । आमलकी वृक्षः ॥ फले ॥६।२।५८ ॥ विकारेऽवयवे चार्थे प्रत्ययस्य लुप् । आमलकम् ॥ प्लक्षादेरण ॥६॥२॥ ५९॥ विकारेऽवयवे वा फले । विधानसामर्थ्याच्चास्य न लुप् । प्लाक्षम् । अश्वत्थम् ॥ RELEASURES49 ESSESEGINAROKARANG
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy