________________
9%84-%
ॐASTERS-
याः प्राण्योषधिवृक्षेभ्योऽवयव विकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वंदितव्यम् । पाणिग्रहणेनेह असा एवं गृह्यन्ते ॥ तालानुषि ॥६।२ । ३२ ॥ विकारेऽण् । तालं धनुः । धनुपीति किम् । तालमयं काण्डम् ॥ अपुजतोः षोन्तश्च ॥६॥२॥ ३३ ॥ विकारेऽणू | पापुषम् । जासुषम् ।। शभ्याश्च लः ॥६।२।३४॥ विकारेऽवयव चाण | शामील भस्म । शामीली शाखा॥ पयोद्रोर्यः ॥६।२ । ३५॥ विकारे । पयस्यम् । द्रव्यम् ॥ उष्ट्रादकम् ॥६। २ । ३६॥ विकारेऽवयवे च । औष्ट्रकं माममङ्ग वा ॥ उमोर्णाद्वा ॥६॥२॥३७॥ विकारेऽवयवे चाकञ् । औमकम् । औमम् । और्णकम् । ओणः कम्बलः ॥ एण्या एयञ् ॥६॥२॥३८॥ विकारेऽवयवे च । ऐणेयं मांसमझं वा। स्त्रीलिङ्गनिर्देशात्पुंलिङ्गादणेव । ऐण मांसम् ॥ कौशेयम् ॥ ६।२। ३९॥ कौशेयं वस्त्रं सूत्र वा । मिपातनं रूढयर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र न । परशब्याचलुच॥६।२। ४०॥ विकारेऽण । पारशवम् । यग्रहणं यस्य समुदायस्य लोपार्थम् । तेन कांस्यमित्यत्रावर्णेवर्णस्येतीकारलोपः॥ कंसीया श्यः ॥६।२।४१॥ विकारे सयोगे यलुक् च । कास्यम् ॥ हेमार्थान्माने ॥६।२।४२ ॥ विकारेऽण् । हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः॥६२॥४३॥ माने विकारे । दुवयं मानम् ॥ मानाक्रीतवत् ॥६।२।४४ ॥ विकारे । मानं संख्यादि । शतेनं क्रीतं शत्यम् । शतिकम् । एवं विकारेऽपि । वग्रहणालबादिकस्याप्यतिदेशः । तेत द्विशत इत्यादि ॥ हेमादिभ्योऽम् ॥ ६॥२॥४५॥ विकारेऽवयवे च यथायोगम् । हैमम् । राजतः॥ अभक्ष्याच्छादने वा मयट ६।२।४६॥ विकारेऽवयवे च यथायोगम् । भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम !। मौद्गः सूपः । कार्पासः परः । भक्ष्याच्छादनयोर्मयभावपक्षे च तालानुषि इत्यादिको विधिः सावकाशः। अयं च भस्ममयमित्यादौ । वनोपयमाप्तौ परत्वादनेन मयट । तालमयं धनुः । एके तु तालाडनुषि द्रोः पाणिवाचिभ्यश्च मयटं नेच्छन्ति ॥ शरदर्भकूदी
AAAAA