________________
रात्रिः । अद्य पुष्यः ॥ द्वन्द्वादीयः ॥। ६ । २ । ७ । टान्ताच्चन्द्रयुक्तभायुक्त श्रवणाश्वत्थान्नाम्न्यः ।। ६ । २ । ८ ।। टान्ताच्चन्द्रयुक्तार्थायुक्ते काले । श्रवणा नाम्नीति किम् ? | श्रावणमहः । आश्वत्थमहः ॥ षष्ठयाः समूहे ॥। ६ । २ । ९॥ यथाविहितं प्रत्ययाः । चापम् । स्त्रैणम् । पञ्चकुमारीत्यत्र तु न तद्धितः । समासेन समूहार्थस्योक्तत्वात् । तेन ङीनिवृत्तिर्न ॥ भिक्षादेः ।। ६ । २ । १० ।। षष्ठ्यन्तात्समूहे यथाविहितं प्रत्ययाः । भैक्षम् ॥ अनपत्ये ॥ ७ । ४ । ६६ ।। इन्नन्तस्याण्यन्त्यस्वरादेर्लुग् न । गार्भिणम् । यौवतम् । क्षेत्रम । पुंवद्भावबाधनार्थोऽस्य पाठः । अन्ये तु युवतिशब्दं न पठन्ति । तन्मते यौवनम् ॥ क्षुद्रकमालवात्सेनानाम्नि । ६ । २ । ११ ॥ षष्ठ्यन्तात्समूहे ऽण् ॥ क्षौद्र मालवी सेना । गोत्राकबाधनार्थ वचनम् । समूहाधिकारे हि धेनोरनत्र इति प्रतिषेधात्तदन्तग्रहणम् ॥ गोप्रोक्षवत्सोष्ट्रवृडाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ।। ६ । २ । १२ ।। समूहे । गार्गकम् । औक्षकम् । वात्सकम् । औष्ट्कम् । वार्द्धकम् । आजकम् । औरभ्रकम् ॥ न राजन्यमनुष्ययोरके ॥ : । ४ । ८४ ॥ यो लुक् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् || केदाराण्ण्यश्च ॥। ६ । २ । १३ ॥ समुहे कञ् । कैदार्यम् । कैदारकम् ॥ कवचिहस्त्यचिन्ताच्चेकण् ॥। ६ । २ । १४ ॥ केदारात्समूहे । कावचिकम् । हास्तिकम् । आपूपिकम् । शाष्कुलिकम् । कैदारिकम् । ण्याकञ्भ्यां बाधा मा भूदितीकविधानम् ॥ धेनोरनमः ॥ ६ ॥ २ । १५ ॥ समूहे इकण । ऋवर्णो वर्णदोसिसु सशश्वदकस्मात्त इकस्येतो लुक् ॥ ७ । ४ । ७१ ।। धेनुकम् । अन इति किम् ? | धनवम् ॥ ब्राह्मणमाणववाडवाद्यः ।। ६ । २ । १६ ।। समूहे । ब्राह्मण्यम् । माणव्यम् । वाढव्यम् ॥ गणिकाया ण्यः ॥। ६ । २ । १७ ॥ समूहे । गाणिक्यम् । ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् । तेन ब्राह्मण्ययात्रः । ये हि पुंवद्भावो न स्यात् ॥ केशाद्वा ।। ६ । २ । १८ ।। समूहे ण्यः । कैश्यम् । कैशिकम् ॥
हितं प्रत्ययः । पौषमहः । पौषी काले । राधानुराधीयमहः ॥ रात्रिः । अश्वत्था पौर्णमासी ।