________________
दीति किम् ? | संभावयामि यद् सुमीत भवान् । श्राधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् ॥ सतीच्छाअर्थात् ।। ५ । ४ । २४ ॥ वर्त्तमानात् सप्तमी वा । इच्छेत् । इच्छति । उश्यात् । वष्टि । क्षेपेऽपिजात्वो वर्तमाना इत्यादावपि परत्वादयमेव । अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् इच्छति धिग्गहूमहे ॥ वत्स्र्यति हेतुफले ॥ ५ । ४ । २५ ॥ वर्त्तमानात् सप्तमी वा । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । वस्तीति किम् ? । दक्षिणेन चेद्यानि न शकट पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तम मन्यन्ते । हनिष्यतीति पलायिष्यते इत्यत्र तु इतिशब्देनैव हेतुफलभावस्य द्योतितत्वात्सप्तमी न ॥ कामोक्तावकच्चिति ॥ ५ । ४ । २६ । गम्यायां धातोः सप्तमी । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् ? । कच्चिज्जीवति मे माता ॥ इच्छार्थे सप्तमीपञ्चम्यौ || ५ | ४ | २७ ॥ धातावुपपदे कामोक्तो गम्यमानायाम् । सर्वविभक्त्यपवादः । इच्छामि भुञ्जीत भुङ्कां वा भवान् । कामोक्तावित्येव । इच्छया भुङ्क्ते । नात्र प्रयोक्तुः कामोक्तिः । अत्र सत्यपि सप्तमीनिमित्त इच्छा उपपदे कामोक्तौ क्रियातिपतनस्या सामर्थ्येनासम्भवात् क्रियातिपत्तिर्न । अन्ये तु सप्तम्युवाप्योरित्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति तत्रैव क्रियातिपतने क्रियातिपत्तिरिति मन्यन्ते । इच्छायें कर्मणः सप्तमी ।। ५ । ४ । ९९ ।। धातावुपपदे तुल्यकर्तृकार्थाडातोः सम्बन्धे । भुञ्जीयेतीच्छति कामयते वा । इच्छार्थ इति किम् ? । भोजको याति । कर्मण इति किपू १ । इच्छन् करोति । तुल्यकर्तृक इति किम् ? । इच्छामि भुक्तां भवान् ॥ "विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने || ५|४|२८||” सप्तमीपञ्चम्यौ । कर्ट कुर्यात् करोतु वा इत्यादि ॥ ससमी चोर्ध्वमोहति ॥५| ४ | ३० ॥ मैषादिषु गम्धेषु वर्त्तमानाडातोः कृत्यपश्चभ्यौ । ऊर्ध्वं मुहूर्त्ता भवान् कर्ट कुर्यात क रोतु वा । भवता कटः कार्यः । भवान् हि प्रेषितोऽनुज्ञानः ॥ भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी ॥ ५ । ४ । ३१ ॥ उपपदे मैषादिषु-गम्येषु ऊर्ध्वमौहूर्तिकेऽर्थे वचपानडातोः । कृत्यतम्यपवादः । ऊ मुहूर्ता
भवान् क