________________
हेमप्रभा-*
॥६५॥
सातत्यम् । बस्तनीश्वस्तन्यो प्रतिषेधोऽयम् । यावज्जीवं भृशमन्नमदादास्यति वा। आसत्तिः सामीप्यम् । बच्च सजातीयेन फालेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट । येयं पौर्णमास्यागामिनी एतस्यां जिनमहः प्रवर्तिष्यते । बौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ॥ एष्यत्यवधौ देशस्यार्वाग्भागे ॥५।४।६ ॥ देशस्य योऽवधिस्तदाचिन्यु
लत्याद्यर्थ पपदे देशस्यैवार्वागभागे य एव्यन्नर्थस्तत्र वर्तमानाहातोरनद्यतनविहितः प्रत्ययो न । अप्रबन्धार्थमनासत्यर्थं च सूप्रम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः। योऽयमध्वा गन्तव्य आशयात् तस्य यदवरं वलभ्यास्तत्र बिरोदनं भोक्ष्यामहे । द्विः सक्तून् पास्यामः । एष्यतीति किम् ? । योऽयमध्वाऽतिक्रान्त आ शत्रुभयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? । योऽयमध्वा निरवधिको गन्तव्य. स्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अग्भिाग इति किम् ? । योयमध्वा गन्तव्य आ शञ्जयात् तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । द्विःसक्तून् पातास्मः ॥ कालस्यानहोरात्राणाम् ॥ ५।४।७॥ कालस्य योऽवधिस्तदाचिन्युपपदे कालस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानादातोरनघतनविहिता प्रत्ययो न, न चेसोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्वस्य यदवरं आग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । एष्यतीत्येव । योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्येमहि । अनहोरात्राणामिति किम्?योऽय मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्रयुक्ता द्विरध्येतास्महे । योगविभाग उत्तरार्थःगापरे
वादा कालस्य योऽवधिस्तद्वाचिन्युपपदे काकस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यन्नस्तत्र वर्तमानाडातोरनयान विहितः प्रत्ययो न । आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् हिःसूत्रमध्येष्यामहे अध्येतास्महे । प्रबन्धासत्तिविवक्षायामपि
॥६५॥ परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्याग्रहायण्याः परस्तादविच्छिनं सूत्रमध्येष्यामहे अध्येतास्महे ॥ भूते ॥