________________
हेमप्रभा
॥६४॥
वर्त्तमाना, सा च सछत् । किमकार्षीः कटं चैत्र । न करोमि भोः । न कुर्वन्तं न कुर्वाणं पश्य माम। नाकार्षम् । नु ककरोमि भोः । कुर्वन्तं कुर्वाणं नु मां पश्य । न्वकार्षम् || परिदेवने || ५ | ३ | ६ || गम्ये वत्स्यति वर्त्तमानाडातोः श्वस्तनी । परिदेवनमनुशोचनम् । अनद्यतनार्थं सूत्रम् । इयं तु कदा गन्ता यैवं पादौ निदधाति । विशेषविधानात् कदाकलिक्षणा विभाषा बाध्यते ॥ पुरायावतोर्वर्त्तमाना ॥ ५ । ३ । ७ ॥ वत्र्त्स्यति वर्त्तमानाद्धातोः । पुरा भुङ्क्ते । यावद् भुङ्क्ते । भविष्यदनद्यतनेऽपि परत्वाद्वर्त्तमानैव । लाक्षणिकत्वादिह न । महत्या पुरा जेष्यति ग्रामम् । यावद्दास्यते तावद् भोक्ष्यते । यत्परिमाणमित्यर्थः ॥ कदाकह्यर्न वा ॥ ५ । ३ । ८ । धातोर्वर्त्तमाना । पक्षे भवि यन्तीश्वस्तन्यावपि । कदा शुक्ते । भोक्ष्यते । भोक्ता वा । कर्हि भुङ्क्ते भोक्ष्यते भोक्ता वा ? । कर्हिशब्दस्य अनयतनार्थवृत्तित्वाद्भविष्यन्ती प्राप्नोति न वो, गमिष्यतीत्यादिवत्तु भविष्यति ॥ किंवृत्ते लिप्सायाम् ||५|३|९|| उपपदे गम्यायां वदतोवर्तमाना वा । पक्षे भविष्यन्तीश्वस्तन्यावपि । विभक्त्यन्तस्य उत्तरडत्तमान्तस्य च किमो वृ किंवृत्तमिति वैयाकरणसमयः । को भवतां भिक्षां ददाति दास्यति दावा वा ? । एवं कारकतमशब्दयोरप्युपपदयोः । किं वृत्त इति किं ? । भिक्षां दास्यति । लिप्सायामिति किम् ? । कः पुरं यास्यति ॥ लिप्स्यसिन्डौ । ५ । ३ । १० ॥ गम्यायां वदर्थाद्धातोर्वर्तमाना वा । अर्किवृत्तार्थोऽयमारम्भः । यो भिक्षां ददाति दस्यति । दाता वा । स स्वर्गे याति यास्यति याता वा ॥ पञ्चम्यर्थहेतौ ॥ ५ । ३ । ११ ॥ वार्त्स्यति वर्त्तमानाद्धातोर्वर्त्तमाना वा । उपाध्यायवेदागच्छति आगमिष्यति आगन्ता वा । अथ त्वं सूत्रमधीष्व ॥ सप्तमी चोर्ध्वमौहूर्त्तिके ॥ ५ । ३ । १२ ॥ पञ्चम्यर्थतौ वत्स्यदर्थे वर्त्तमानाडातोर्वर्त्तमाना वा । ऊर्ध्वं मुहूर्त्तादुपरि मुहूर्त्तस्योपाध्यायश्वेदागच्छेत् आगच्छति भागमिष्यति आगन्ता वा अथ त्वं तर्कमधीष्व ॥ क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती ॥ ५ । ३ । १३॥ उपपदे वस्र्यदर्थाद्धातोः । कर्त्तुं व्रजति । कारको व्रजति । करिष्यामीति व्रजति । क्रियायामिति किम् ? धावतस्ते
त्याद्यर्थ मक्रिया.
॥६४॥