________________
AISA
सम्बन्धे प्रयोक्तुराकाक्षा ॥ कृतास्मरणातिनिन्हवे परोक्षा॥५।२।११॥ भूतेऽनद्यतनेऽर्थे वर्तमानाडातोः। मुप्तोऽहं किल विललाप । अतिनिद्वये । कलिङ्गेषु त्वया ब्राह्मणो हतः?कः कलिङ्गान् जगाम? को ब्राह्मणं ददर्श ? नाई कलिङ्गान् जगाम । अतिग्रहणादेकदेशादेपनवे यस्तन्येव । न कलिङ्गेषु ब्राह्मणमहनम् ॥ हशश्वद्युगान्तःप्रच्छये यस्तनी च ॥५।२।१३ ॥ हे शश्वति च प्रयुज्यमाने पञ्चवर्षमध्यप्रच्छचे च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोयस्तनीपरोक्षे । इति हाकरोत् चकार का । शश्वदकरोत् चकार वा । मच्छये, किमगच्छस्त्वं मथुराम् ? । जगन्थेति वा। वेत्येव कृते भृतानद्यतनमात्रभाविन्या हस्तन्याः पक्षे सिकौ बस्तनी विधानं स्मृत्यर्थयोगेऽपि शस्तन्येव यथा स्यादित्येषमर्थम् ॥ अविवक्षिते ॥ ५।२।१४॥ भूतानयतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाडातोबस्तनी। अभवत्सगरो राजा बहन् कसं वासुदेका एवं च परोक्षानद्यतने विवक्षावशादद्यतनीह्यस्तनीपरोक्षास्तिस्रो विभक्तयः सिहाः॥ वाचतनी पुरादो ॥५।२।१५॥ भूतायतने परोक्षेऽपरोक्षे चाऽर्थे वर्तमानाद्धातोः । अवात्सरिह पुराछात्राः । पक्षे यथाप्राप्ति ते अपि । अवसन् ऊषुर्वा । तदाभाषिष्ट राघवः । अभाषत । बभापे वा । भूतानद्यतनपरोक्षेऽद्यतनी नेच्छन्त्यन्थे । एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । इशश्वच्छब्दयोगेऽपि पुरादियोगे परात्वादिकल्पेनाद्यतनी । भूतमात्रविवक्षयाऽद्यतन्याः सिद्धौ पुरादियोगे तद्वचनं इशश्वत्संनियोगे सामान्य विवक्षयाऽद्यतनी नेति ज्ञापनार्थम् ।। स्मेच वर्तमाना ।। ५।२।१६।। भूतानद्यवनेऽर्थे वत्मानाद्धातोः पुरादावुपपदे । इति स्मोपाध्यायः कथयति । वसन्तीह पुरा छात्राः । भाषते राघवस्तदा । अथाह वर्णी । आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च पुरादियोगेऽद्यतनीबस्तनीपरोक्षावर्तमानाश्चतस्रो विभक्तयः सिद्धाः । स्मपुरायोगे तु परत्वाबर्तमानव ॥ ननौ पृष्टोक्ती सबत ॥५।२।१७।। उपपदे भूतार्थाद्धातोवर्चमाना । सदद्वचनादत्र विषये शत्रानशावपि । किमकार्षीः कर चैत्र । ननु करोमि भो। ननु कुर्वन्तं कुर्वाणां मां पश्य ॥ नन्वोर्विभाषा n५२।१८॥ पृष्टोक्तौ भृते
SHA