SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ कर्त्तरितु ॥ एकधातौ कर्मक्रिययकाकर्मक्रिये ॥३।४। ८६ ॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका भभिन्ना सम्मत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकरूपे धातोधिक्यात्मनेपदानि तथा भवन्ति, यथा पूर्व विहितानि । क्रियते अकारि करिष्यते वा कटः स्वयमेव । भिद्यते कुशूलः स्वयमेव । अभेदि । एकधाताविति किम् । पचत्योदनं चैत्रः । सिरत्योदनः स्वयमेव । कर्मक्रिययेति किम? । साध्वसिश्छिनत्तिा किन कर्तृस्थक्रियेभ्यो मा भूत् ।। गच्छति ग्रामः । आरोहति इस्ती । 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । कर्मणि क्रियाकृतविशेषदर्शन एवं 51 क्रियायाः कर्मस्थत्वम् । अत्र तु न तथा । पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यादर्शनात् । करोतेरुत्पादनार्थत्वात्कर्मस्थक्रियत्वम् । एकक्रियेति किम् ? । सबत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः । इह विसृजति निष्कामतीति क्रियाभेदः ।गलत्युदकं बलीकानि । गलत्युदकं वलीकेभ्य इत्यत्रापि मुञ्चतीति पततीति क्रियाभेदान्नैकक्रियत्वम् । अकर्मक्रिय इति किम् ? । भिद्यमानः कुशूल: पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः । एकस्य कर्मत्वं कर्तृत्वं च क-४ यमिति चेत्, उच्यते, सर्वमपि हि कर्म स्वव्यापारे स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यक्कृतं सत् कर्मतामनुभवति । क ल व्यापाराविवक्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वम् । यदाहुः- निवृत्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कन्तराणां व्यापारे कर्म सम्पद्यते ततः ॥१॥ निवृत्तप्रेषणं चैतत् स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्थे कर्तृत्वेऽवतिष्ठते 18 ॥२॥ इति ॥ सृजः श्राद्ध भिक्यात्मने तथा ॥३।४।९४ ॥ कर्तरि यथा पूर्व विहितानि । मृज्यते, असजि, स्रक्ष्यते, वा मालां धार्मिकः । श्राद्ध इति किम् ? । व्यत्यसृष्ट माले मिथुनम् ॥ तपेस्तपः कर्मकात् ॥३।४।८५।। करि बिक्यात्मनेपदानि तथा । तप्यते तेपे वा तपः साधुः । तपिरत्र करोत्यर्थः। बिच तु न, तपः कत्रनुतापे चेति निषेधात् । अन्वतप्त तपः साधुः । तप इति किम् ? । उत्तपति सुवर्ण सुवर्णकारः । कर्मति किम् ? ICT तपांसि साधु तपन्ति । कर्मकरि तु अन्ववतप्यते अन्ववातप्त वा कितवः स्वयमेव ॥ पचिदुहेः ॥ian VISORREGATION
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy