________________
।
हेमप्रभा
| ॥२३॥१०८॥ णिगः कर्तरि परस्मैपदम् । चलयति कम्पयति शाखाम् । आशयति भोजयति चैत्रमन्नम्। सूत्रमध्यापयति | शिष्यम् । बोधयति पमम् । योधयति काष्ठानि । भावयति राज्यम् । मापयतीत्यर्थः । द्रावयति अयः ।विलाययतीत्यर्थः। स्रावयति तैलम् । स्यन्दयतीत्यर्थः नाशयति पापम् । जनयति पुण्यम् । प्रस्रणामचलनार्थार्थ शेषाणां सकर्मकार्थममा. णिकर्तृकार्थं च वचनम् ॥ ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीताथत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय
तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभार्या परस्मैपदप्रक्रिया ॥ ...
॥६॥
प्रक्रि.
545555ASHASACHARX
॥अथ भावकर्मप्रक्रिया ॥ अथ भावफमणोविभक्तयः । तत्साप्यादित्यादिनात्मनेपदम् ।। क्यः शिति ॥३।४ । ७०॥ धातोर्भावकर्मविहिते । भावो भावना उत्पादना क्रिया। सा च धातुत्वेन सकलधातुवाच्या भावार्थप्रत्ययेनानूद्यते । अनुक्ते कर्तरि तृतीया । त्वया मया अन्यैश्च भूयते । अभृयत ॥ भावकर्मणोः ॥३।४।६८ ।। धातोर्विहितेऽद्यतन्यास्ते बिच तलुक् च । अभावि । बभूवे ॥ स्वरग्रहदशहन्भ्य: स्यसिजाशीःश्वस्तन्यां बिडू वा ॥३४॥ ६९ ॥ विहितायां भावकर्मविषयायाम् । भाविषीष्ट २ । भाविता । भाविष्यते २ । अभाविष्यत २ । उक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण । अनुभूयेते । । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविपाताम् । अन्वभविषाताम् | भाव्यते । भावयाचक्रे । भावयांबभूवे । भावयामहे । भाविता । भावयिता । बुभूष्यते । बुभूष्येत । बुभूषांचके । बुभूषिता । बोभूय्यते । यङ्लुबन्तात्तु बोभूयते । अबोभावि । बोभवांचक्रे । बोभाविता २ | दीर्घः । स्तूयते । अस्तावि । भस्ताविपाताम् । अस्तोषाताम् । तुष्टुवे । अर्यते । स्मर्यते । परत्वाद्गुणे कृतेऽपि स्वरा
|
SUSHAN