________________
परिमोहयति वा । स्वं यज्ञ यजते यजति वा । स्वां गां जानीते जानाति वा । स्वं पुत्रमपवदते अपवदति वा । स्वान् ब्रीहीन् संयच्छते संयच्छति वा ॥
इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि. संविग्नशाखीयतपोगच्छाचार्यभहारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां आत्मनेपदप्रक्रिया॥
॥अथ परस्मैपदप्रक्रिया ॥ शेषात्परस्मै ॥ ३ । ३।१०॥ भवति ॥ परानोः कृगः ॥ ३ । ३ । १०१॥ कर्तरि परस्मैपदम् । गन्धनादौ फलवति च कर्तरि प्राप्तस्यात्मनेपदस्यापवादोऽयम् । पराकरोति । अनुकरोति । कथं गङ्गामनु कुरुते तप इति । नात्र करोतिरनुना संबध्यते ॥ प्रत्यभ्यतेः क्षिपः॥३।३ । १०२ ॥ प्रतिक्षिपति । अभिक्षिपति । अति क्षिपति बटुम् ॥ प्रावहः॥३।३ । १०३ ॥ कर्तरि परस्मैपदम् । प्रवहति । परेमषश्च ॥ ३ । ३।१०४॥ वहः कर्त्तरि परस्मैपदम् । परिमृष्यति । परिवहति । बहनेंच्छन्त्यन्ये । व्यापरे रमः ॥ ३।३।१०५॥ कत्तरि परस्मैपदम् । विरमति । आरमति । परिरमति ॥ वोपात् ॥३।३।१०६ ॥ भार्यामुपरमति उपरमते वा। अन्तर्भूतणिगर्थोऽत्र रमिः । उपसम्माप्तिपूर्विकायां रतौ वा वर्त्तते । उपरमति उपरमते वा सन्तापः। उपाद्रमः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये । अणिगिप्राणिकर्तृकानाप्याण्णिगः ।। ३।३।१०७॥ कर्तरि परस्मैपदम् । आवासयति चैत्रम् । अणिगीति किम् ? । स्वयमेवारोहयमाणं हस्तिनं प्रयुक्ते आरोहयते । अणिगिति गकारः किम् ? । चेतय
मानं प्रयुख्यते चेतयतीति । प्राणिकर्तृकेति किम् ? । शोषयते ब्रीहिनातपः । इह प्राण्योपधिवक्षेभ्य इति पृथग्निर्देशाIM लोके प्रतीता एव माणिनो गृह्यन्ते । अनाप्यादिति किम् ? । कट कारयते ॥चल्याहारार्थबुधयुधमुद्रुमुनश्जन 131
SHRA