________________
हेमप्रभा॥५९॥
बिभेतेषु च ॥ ३ । ३ । ९२ ॥ प्रयोक्तुः स्वार्थे वर्तमानाण्यन्तात्कर्त्तर्यात्मनेपदम्, पक्षेऽन्तस्याकारश्चाकर्त्तर्यपि । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः स्वार्थ । इत्येव कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव । भीषा । भापनम् । तिनिदेशावपि न ॥ मिथ्याकृगोऽभ्यासे || ३ | ३ । ९३ ।। णिगः कर्त्तयत्मनेपदम् । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । पदं मिथ्या कारयते । स्वरादिदोषदुष्टमसकृदुच्चारयतीत्यर्थः । आत्मनेपदेन क्रियाभ्यावृत्तेद्यतितत्वादाभीक्ष्ये द्विर्वचनं नेति केचित् । मिथ्येति किम् ? । पदं साधु कारयति । अभ्यास इति किम् ? । सकृत्पदं मिथ्या कारयति ॥ परिमुहायमायस पाद्र्धेवदव सदमादरूचनृतः फलवति ॥ ३ । ३ । ९४ ॥ णिगन्तात्कर्त्तर्यात्मनेपदम । फलवतीति भूम्न्यतिशायने वा मतृस्तेन फलं प्रधानं ग्राह्यं यदर्थमियमारभ्यते । परिमोहयते चैत्रम् | आयमयते सर्पम् । आयासयते मैत्र । पाययते बटुम् । धापयते शिशुम । वादयते शिशुम् । वासयते पान्थम् । दमयतेऽश्वम् । आदयते चैत्रेण । अदेर्नेच्छन्त्यन्ये । रोचयते मैत्रम् । नर्त्तयते नटम् । पिबत्यत्तिट्धेधातूनामाहारार्थत्वादौदासीन्यनिवृत्यर्थतायामकर्मकत्वाच्च नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वादुत्तरसूत्राभ्यां परस्मैपदे प्राप्ते वचनम् । पावसोभवादिकयोरेवग्रहणम् । वदसाहचर्यात् " || ईगितः ||३३|९५ ||" यजते । कुरुते ॥ ज्ञोऽनुपसर्गात् ॥ ३॥ ३ । ९६ ।। फलवति कर्त्तर्यात्मनेपदम् । गां जानीते । अनुपसर्गादिति किम् ? । स्वर्गे प्रजानाति । फलवतीत्येव । परस्य गां जानाति । अकर्मकात् पूर्वेण सिद्धे सकर्मकार्थं वचनम् ॥ वदोऽपात् ।। ३ । ३ । ९७ ।। फलवति कर्त्तर्यात्मनेपदम् । एकान्तमवदते । फलवतीत्येव । अपवदति परं स्वभावतः ॥ समुदाङो यमेरग्रन्ये ।। ३ । ३ । ९८ ॥ फलवति कर्त्तर्यात्मनेपदम् । संयच्छते व्रीहीन् । उद्यच्छते भारम | आयच्छते वस्त्रम । अग्रन्थ इति किम् ? । वैद्यश्चिकित्सामुयच्छति । चिकित्साग्रन्थे उद्यमं करोतीत्यर्थः । फलवतीत्येव । संयच्छति परस्य वस्त्रम | पदान्तरगम्ये वा ॥ ३ । ३ । ९९ ।। अनन्तरसूत्र पञ्चकेन यदात्मनेपदमुक्तम् तत्पदान्तरगम्ये फलवति कर्त्तरि वा । स्वं शत्रु परिमोहयते
आत्म
मकि०
॥५९॥