________________
इन्त्यात्मानं घातयत्यात्मेति, उच्यते । द्वावात्मानौ शरीरात्मान्तरात्मा च । तत्र यस्याणिगि कर्मत्वं तस्यैव णिगि कर्म
नाणिक्कतुरिति । शुष्यन्त्यातपे व्रीहयः शोषयते व्रीहीनातप इत्यादौ तु फलवत्कर्त्तरि भविष्यति । नन्वेवमारोहहस्तीत्यादावपि तथैवास्त्विति चेन्न । फलवतः कर्मस्थक्रियाच्चान्यत्रास्य विधेरभ्युपगमात् । तथा हि- लावयते केदारः भूषयते कन्या कारयते कटः गणयते गणः आरोहयते हस्ती स्वयमेवेत्यादौ कर्मस्थ क्रियत्वादेकधातौ कर्मेति आत्मनेपदं भवति । न्यग्भावनार्थत्वे च रुहेः कर्मस्थक्रियत्वम् । तथाहि आरोहयन्ति हस्तिनं हस्तिपका इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्त्तते । द्वितीयावस्थायामारुह्यते हस्ती स्वयमेवेत्यस्यां कर्मकर्तृविषयो न्यग्भवनमात्रवृत्तिर्भवति । अथ चतुर्थ्यामन्तर्भूततृतीयायामारुह्यमाणं प्रयुज्जत इति हस्तिपकव्यापारप्रधानायां णिगन्तः सन्नारोहयन्ति इस्तिनं हस्तिपका इत्यस्यां शुद्धारोहतिवन्न्यग्भवनोपसर्जने न्यग्भावने वर्त्तते । पुनर्यदाऽस्यैव प्रयोजकव्यापाराविवक्षा तदारोहयते हस्ती स्वयमेवेत्यस्यां पञ्चमावस्थायामारुह्यते हस्ती स्वयमतिवन्न्यग्भवन लक्षणस्य विशेषस्य हस्तिसमवेतत्वेनोपलम्भाळावयते केदार इत्यादाविव कर्मस्थक्रियत्वमस्त्येवेति । तदुक्तम् । " न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते । अवस्थां पञ्चमीमा हुर्ण्यन्ते तां कर्मकर्त्तरि । निवृत्तमेषयणाद्धातोः प्राकृते ऽर्थे णिगुच्यते इति ॥ प्रलम्भे गृधिवचेः ॥ ।। ३ । ३ । ८९ ॥ णिगन्तात्कर्त्तयत्मनेपदम् || बहुं गर्धयते । बहुं वञ्चयते । प्रलम्भ इति किम ? | श्वानं गर्धयति । प्रलोभयतीत्यर्थः । लिङ् लिनोऽर्चाभिभवे चाचा कर्त्तर्यपि ॥ ३ । ३ । ९० ॥ णिगन्तात्प्रलम्भेऽर्थे कर्त्तर्यात्मनेपदम् | जटाभिरालापयते । परैरात्मानं पूजयतीत्यर्थः । श्येनो वर्त्तिकामपलापयते । अभिभवतीत्यर्थः । कस्त्वामुल्लापयते । वञ्चयतीत्यर्थः । अर्चाभिभवे चेति किम् ? । बालमुल्लापयति । उत्क्षिपतीत्यर्थः । अकर्त्तर्यपीति किम् ? । जटाभिरालाप्यते जटिलेन || स्मिङः प्रयोक्तुः स्वार्थे ॥ ३ | ३|११|| गिः कर्तर्यात्मनेपदमन्तस्य चादकर्त्तपि । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थ इति किम् ? । रूपेण विस्माययति । अकर्तर्यपीति किम् ? विस्मापनम् । ङिन्निर्देश | लुपिन ।