________________
हेमप्रभा-18 ॥५८॥
555
आहते । आयच्छते पादम् । आहते शिरः । स्वेऽङ्गे चेति किम् ? । आयच्छति रज्जुम । स्व इति किम् ? । आयच्छति ॥ पादौ चैत्रस्य । अङ्ग इति किम् ? | स्वामायच्छति रज्जुम् । पारिभाषिकस्वाङ्गनिवृत्यर्थमसमस्ताभिधानम् ॥ यमः सूचने ४। ३ । ३८ ॥ आत्मनेपदविषयः सिन् कित् । उदायत । उदायसाताम् । सूचनं परदोषाविष्करणम् । सूचन इति किम् ? । उदायस्तै कूपाद्रज्जुम् । उद्धृतवानित्यर्थः । वधादेशः । आवधिष्ट । पक्षे ॥ हनः सिच् ॥ ४ ॥
लकण्डवा० ३ । ३८ ॥ आत्मनेपद विषयः किन ॥ आहत । आइसाताम् । व्युदस्तपः॥३।३। ८७ ॥ कर्मण्यसति स्वेऽङ्गे दिपकरणम् च कर्मणि कर्तर्यात्मनेपदम् । वितपते उत्तपते रविः ।दीप्यते इत्यर्थः। स्वेऽओं, वितपते उत्तपते पाणिम् । तापयतीत्यर्थः ॥ अणिक्कमणिक्कतकाण्णिगोऽस्मृतौ ॥ ३।३।८८ ॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य सोऽणिकर्मणिकर्तृकस्तस्माण्णिगन्ताद्धातोः कर्तर्यात्मनेपदम् । हस्तिपका हस्तिनमारोहन्ति । आरोहयते इस्ती हस्तिपकान् आस्दन्दयत इत्यर्थः। पश्यन्ति राजानं भृत्याः। दर्शयते राजा भृत्यान् भृत्यैर्वा । अणिगिति किम् ? । आरोहन्ति हस्तिन हस्तिपकाः । आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रेण इस्तिपका। गित्करणं किम् ? । गणयति गण गोपालकः । गणयते गणो गोपालकम् । कर्मेति किम् ? । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? । लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव । तं प्रयुक्ते लावयति केदारं चैत्रः कर्तृग्रहणं किम् ? । आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयति महामात्रः । णिग इति किम् ? । आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयते हस्तीत्यणिगवस्थायां मा भूत् । प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव णिगवस्था गृह्यते । तेनेह न । आरुह्यमाणो हस्ती सेचयति पृष्ठं मूत्रेण । हस्तिपकैरारुह्यमाणो हस्ती.स्थलमारोहयति नरनित्यत्र तु साधनभेदात क्रियाभेदे धातुमेदः । अस्मृताविति किम् ? । स्मरयति वनगुल्मः कोकिलम् । ननु कथं
॥५८॥ - १ समुदाक इत्यात्मनेपदम् ।
SEARCHSLIGHUR
5454