SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ OSAKA SUCCORIOUC5%E3+ACCA न संवदेते इति तु विमतिविवक्षायाम । अकर्मकादित्यनुक्त्वा कर्मण्यसतीति निर्देश उत्तरत्र शब्दे स्वेऽङ्गे च कर्मणीति | लाघवेन प्रतिपत्त्यर्थः। ज्ञः॥३१८२।कर्मण्यसति कर्तर्यात्मनेपदमासर्पिषो जानीतासर्पिषा करणेन भोक्तुं प्रवत्तंत इत्यर्थः। पिथ्याज्ञानार्थों वा जानातिसपिषि रक्तः प्रतिहतो वोदकादिषु सर्पिष्टयाज्ञानवान् भवतीत्यर्थः।मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वात्षष्ठी। अथवा सर्पिःसम्बन्धि ज्ञानं करोतीति विवक्षायां सम्बन्धे षष्ठी। कर्मण्यसतीत्येव । तैलं सर्पिषो जानानि । केचित्तु ज्ञानोपसर्जनायां प्रवृत्तावेवाकर्मकाज्जानातरात्मनेपदमाहुः । अत एव ते सम्भविष्याव एकस्यामभिजानासि मातरि' इत्यादौ प्रवृत्यर्थाभावादात्मनेपदाभावं मन्यन्ते । ज्ञास्ये रात्राविति प्राज्ञः इत्यत्रापि ज्ञात्वा प्रतिष्य इति व्याचक्षते । जाने कोपपराङ्मुखीत्यत्र तु ज्ञोऽनुपसर्गादित्यात्मनेपदमिच्छन्ति ॥ उपात्स्थः ॥ ३।३। ८३ ॥ कर्मण्यसति कर्तर्यात्मनेपदम् । भोजनकाले उपतिष्ठते । सन्निधीयते इत्यर्थः । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ समो गमृच्छिपच्छिश्रुवित्स्वरत्यतिशः ॥ ३।। ८४ ॥ कर्मण्यसति कर्तर्यात्मनेप. दम् । सङ्गच्छते ॥ गमो वा ॥ ४।३। ३७ ॥ आत्मनेपदविषयौ सिजाशिषौ किद्वत् । समगत । समगस्त । सगसी । सॉसीष्ट । समृच्छते । समृच्छिष्यते । सम्पृच्छते । संशृणुते । नित्यपरस्मैपदिभिः साहचर्यान ज्ञानार्थस्यैव विग्रहणम् । संवित्ते । संविदाते ॥ वेत्तेर्नवा ॥ ४।२।११६ ॥ आत्मनेपदस्थस्यान्तो रत् । संविद्रते संविदते । संस्वरते । अर्तीति भ्वादिरदादिश्च गृह्यते । समृच्छते । समिय॒ते । समारत २। सम्पश्यते । स्वरत्योंतिग्निदेशो यङ्लुन्निवृत्त्यर्थः । कर्मण्यसतीत्येव । संगच्छति सुहृदम् ॥ वेः कृगः शब्दे चानाशे ॥३।३। ८५॥ कर्मण्यसति कर्मणि कर्तर्यात्मनेपदम् । विकुर्वते सैन्धवाः साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । क्रोष्टा विकुरुते स्वरान् । नानोत्पादयतीत्यर्थः । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम ? । विकरोत्यध्यायम् । विनाशयतीत्यर्थः॥ आको यमहनः स्वेऽङ्गे च ॥३।३। ८६ ॥ कर्मण्यसति कत्तुः कर्मणि कर्तर्यात्मनेपदम् । आयच्छते ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy