________________
मिममा.
युष्मद्स्मत्मक्रिया
॥२२॥
ECRECICIRCUSKANGANAGAR
Kा प्रपद्ये । विशेष्यमिति किम् । शरण्या साघवो युष्मान् शरणं प्रपये । आमन्त्र्ये इति किम् । आचार्या युष्मान् भरण्याः भाशरणं प्रपद्ये । सामर्थ्यात् तद्विशेषणभूते इत्येव । आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये । एकाधिकरणयोर्विशेष्यवि
शेषणभावः॥ नान्यत् ।।२।१।२७ ॥ युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये विशेषणे परेऽसदिव न स्यात् । साधो मुविहित त्वा शरणं प्रपद्ये । साधू मुविहितौ वां शरणं प्रपद्ये ॥ पादाद्योः ॥२।१ ।२८॥ पदात् परयो युष्मदस्मदोर्वस्नसादिर्न । "धीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः॥१॥" द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम् । पादायोः किम् । “पान्तु वो देशनाकालें जैनेन्द्रा दशनांशवः भवकूपपतज्जन्तुजातोद्धरणरज्जवः ॥१॥" चाहहवैवयोगे ॥२।१।२९॥ पदात् परयोयुष्मदस्मदोर्न वनसादिः । ज्ञानं युष्मांश्च रक्षतु । एवम्, अह-ह-वा-एचैरप्युदाहायम् । योगग्रहणं साक्षाद्योगपतिपत्त्यर्थम् । तेन ज्ञानं च शीलं च मे स्वमित्यादि सिद्धम् ॥ दृश्यर्थंश्चिन्तायाम् ॥२।१।३०॥धातुभिर्योगे युष्मदस्मदोर्वनसादिन । जनो युष्मान् संहश्यागतः । जतो युवा समीक्ष्यागतः । जनो मामपेक्षते । भक्तस्तव रूपं निध्यायति । दृश्यर्थैरिति किम् । जनो वो मन्यते । चिन्तायामिति किम् । जनो वः पश्यति ॥ नित्यमन्वादेशे ॥२।१।३१॥ पदाद परयोयुष्मदस्मदोर्युग्विभक्त्या वनसादिः। यूयं विनीतास्तदो गुरवो मानयन्ति । इत्यादि ॥ सपूर्वात प्रथमान्तावा ॥२।१ । ३२॥ पदात् परयोर्युप्मदस्मदोरन्वादेशे वस्त्रसादयः । यूयं विनीतास्तद्गुरवो वो युष्माम् वा मानयन्ति । इत्यादि । गम्येऽप्यन्वादेशे भवति । ग्रामे कम्बलो वो युष्माकं वा स्वमथो । विद्यमानपूर्वादिति किम् । पटो युष्माकं स्वम् अथो वा कम्बलः स्वम् ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजपसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपे
तवृदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविनशाखीयसपोगाचार्यश्रीविजयनेमिमूरिविरचितायां हेमप्रभायां युष्मदस्मत्मकरणम् ॥
4599359255