SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ वष्टभ्नातीत्यर्थः । ज्योतिरिति किम् ? । आक्रामति धूमः । उद्गच्छतीत्यर्थः । आक्रामति धूमो हम्य - तलम् । उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? । नभः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः । इह व्याप्तिमात्रं विवक्षितम् । दागोऽस्वास्यप्रसारविकाले ।। ३ । ३ । ५३ ॥ आङः कर्त्तर्यात्मनेपदम् । विद्यामादत्ते । अस्वास्येत्यादि किम् ? । उष्ट्रो मुखं व्याददाति । कूलं व्याददाति । स्वेति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । नुप्रच्छः ॥ ३ । ३ । ५४ ॥ आङः कर्त्तर्यात्मनेपदम् । आनुते शृगालः । उत्कण्ठिसः शब्दं करोतीत्यर्थः । उत्कण्ठापूर्वके संशब्दे नीतेरयं विधिर्न सर्वत्र । आपृच्छते गुरून् । आपृच्छस्व प्रियसखम् । वियुज्यमानस्य प्रश्नयं विधिः । गमेः क्षान्तौ ॥ ३ । ३ । ५५|| आङः कर्त्तर्य्यात्मनेपदम् । क्षान्तिः कालहरणम् । आगमयते गुरून्, कश्चित्कालं प्रतीक्षते । क्षान्तावित्येव । आगमयति विद्याम् । गृह्णातीत्यर्थः । क्षान्तौ गमिर्ण्यन्त एव । ह्रः स्पर्द्धे ॥ ३ । ३ । ५६ ।। गम्ये आङः कर्त्तर्यात्मनेपदम् । मल्लो मल्कमाह्वयते । स्पर्द्धमान आकारयतीत्यर्थः । स्पर्द्ध इति किम् ? । गामाह्वयति । संनिवेः ॥ ३ । ३ । ५७ ॥ ह्वयतेः कर्त्तर्य्यात्मनेपदम् । संहृयते । नियते । विह्रयते । उपात् ॥ ३ । ३ । ५८ ॥ हृयतेः कर्त्तर्य्यात्मनेपदम् । उपह्रयते । यमः स्वीकारे । ३ । ३ । ५९ ।। उपात् कर्त्तर्यात्मनेपदम् । कन्यामुपयच्छते । वेश्यामुपयच्छते । च्चिनिर्देशः किम् ? । शाटकाटकानुपयच्छति । नात्रास्वं स्वं क्रियते स्वत्वेन निर्ज्ञातस्यैव ग्रहणम् । उद्वाह एवेच्छन्त्यन्ये । वा स्वीकृतौ ॥ ४ । ३ । ४० ॥ यमेरात्मनेपदविषयः सिच् कि । उपायत उपायंस्त वा महाखाणि । उपायत उपायंस्त कन्याम् । स्वीकृतावितिकिम् ? । आयस्त पाणिम् । उद्वाह एवेच्छन्त्यन्ये । देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे स्थः ॥ ३ । ३ । ६०॥ उपात्कर्त्तयत्मनेपदम् । देवार्चायाम् | जिनेन्द्रमुपतिष्ठते । बहूनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसङ्घेऽस्मिन् यदर्कमुपतिष्ठते ।१। यदा तु ज्ञेयं देवपूजाऽपि तु चापकमिति विवक्षितं तदा न भवति । मैवं मंस्थाः सचित्तोऽयमेवोऽपि
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy