SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ५५ प्राणात् । यथा, विगणय्य नयन्ति पौरुषम् इति भारविः ॥ " शदेः शिति ॥ ३ । ३ । ४१ ॥ " शीयते ॥ " म्रियतरेचतन्याशिषि च ॥ ३ । ३ । ४२ ॥ " अमृत ॥ " क्यषो न वा ॥ ३ । ३ । ४३ ॥ " ॥ पटपटायति । पटपटायते ॥ “ द्युभ्योऽयतन्याम् || ३ | ३ | ४४ ॥ " अद्युतत् । अद्योतिष्ट | " हृदुद्भ्यः स्पस नोः ॥ ३ । ३ । ४५ ।। " वस्यैति । वर्त्तिष्यते ॥ " कृपः श्वस्तन्याम् || ३ | ३ | ४६ ॥ " क्ल्प्तासि । कपितासे ॥ क्रमोनुपसर्गात् ३ | ३ | ४७ ॥ कर्त्तर्यात्मनेपदं वा । क्रामति । क्रमते । अनुपसर्गादिति किम् ? | अनुक्रामति । वृत्तिसर्गतायने || ३ | ३ | ४८ ॥ क्रमः कर्त्तर्य्यात्मनेपदम् । वृत्तिरप्रतिबन्धः आत्मयापनं वा । शास्त्र क्रमते शुद्धि: । न हन्यते आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहः तात्पर्यं वा । सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा । सूत्राय क्रमते । उत्सहते तत्परो वाऽनुज्ञातो वा । तायनं सन्तानः पालनं स्फीतता वा । क्रमन्तेऽस्मिन् योगाः स्फीता भवन्ति सन्तन्यन्ते पाठ्यन्ते वेत्यर्थः । परोपात् || ३ | ३ | ४९ ॥ आभ्यामेव क्रमेर्वृत्यादिषु कर्त्तर्यौत्मनेपदम् । पराक्रमते । उपक्रमते । परोपादेवेति किम् ? । अनुक्रामति । नृत्यादिष्वित्येव । पराक्रामति । अन्ये तु परोपाभ्यां परात्क्रमेर्व्वत्याद्यभावेपीच्छन्ति । दृश्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते । वेः स्वार्थे ॥ ३ । ३ । ५० ॥ क्रमः कर्त्तर्य्यात्मनेपदम् | साधु विक्रमते गजः । स्वार्थ इत्येव । गजेन विक्रामति । विक्रामत्यजिनसन्धिः स्फुटतीत्यर्थः ॥ प्रोपादारम्भे ॥ ३ । ३ । ५१ ।। क्रमेः कर्त्तव्यत्मनेपदम् । आरम्भ आदिकम् । अङ्गीकरणं चेत्यन्ये । प्रक्रमते उपक्रमते भोक्तुम् । प्रारभते अङ्गीकरोति चेत्यर्थः ॥ आरम्भ इति किम् ? । प्रक्रामति यातीत्यर्थः । उपक्रामति । समीपमागच्छतीत्यर्थः । परोपादित्यनेनापि न भवति नृत्याद्यर्थस्य विवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते ॥ आङो ज्योतिरुद्गमे ॥ ३ । ३ । ५२ ॥ क्रमेः कर्त्तर्यात्मनेपदम् । आक्रमते सूर्यः । उदयत इत्यर्थः । दिवमाक्रममाणेन केतुना । ज्योतिरुद्गम इति किम् ? | माणवकः कुतुपमाक्रामति । अ प्रक० ५५
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy