________________
तिष्ठतीत्यर्थः । उपलम्भन इति किम् ? | मैत्रं शपति। आक्रोशतीत्यर्थः । "आशिषि नाथः || ३|३|३६||” सर्पिषो नाथते । गो गतताच्छील्ये || ३ | ३|३८|| कर्त्तर्य्यात्मनेपदम् । गतं प्रकारः सादृश्यम् । ताच्छील्यमुत्पत्तेः प्रभृत्या विनाशात्तत्स्वभावता । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते । पितरमनुहरते । गतेति किम् ?। पितुर्हरति । ताच्छील्य इति किम् ? | नटो राममहरति । यद्वा गतं गमनम् । तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन ताच्छील्यं गतताच्छील्यम् । पैतृकमश्वा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः। गतताच्छील्य इति किम् ? | धर्मान्तरेण पितरमनुहरन्ति । अथवा गते गमने ताच्छील्ये चेत्यर्थः । पैतृकमनुहरन्ते तद्वद्गच्छन्ति शीळन्ति वेत्यर्थः ॥ पूजाचार्य - कभृत्युत्क्षेपज्ञान विगणनव्यये नियः || ३|३|१९|| पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृकधात्वर्थविशेषणेषु गम्यमानेषु उत्पाद धात्वर्थेषु नयतेः कर्त्तर्य्यात्मनेपदम् । नयते विद्वान् स्याद्वादे । जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य स्याद्वादे शिष्यबुद्धिं प्रापयतीत्यर्थः । ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । माणवकमुपनयते । स्वयमाचार्यो भवन्नध्ययनायात्मसमीपं प्रापयतीत्यर्थः । कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः । शिशुमुदानयते । उत्क्षिपतीत्यर्थः । तवार्थे नयते । प्रमेयं निश्चिनोतीत्यर्थः । प्रमेयनिश्चयो ज्ञानम् । विगणनमृणादेः शोधनम् । कारं विनयन्ते । राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते । तीर्थादिषु धर्म्माद्यर्थ वि नियुङ्क्ते इत्यर्थः । एष्विति कि ? | अजां नयति ग्रामम् | अफलवदर्थं आरम्भः ॥ कर्तृस्थामूर्त्ताप्यात् ॥ ३ ॥३॥ ४० ॥ नियः कर्त्तर्यात्मनेपदम् । श्रमं विनयते । अपनयतीत्यर्थः । कर्तृस्थेति किम् ? । चैत्रो मैत्रस्य मन्युं विनयति । अ
कि ?' | गईं नियति | आध्येति किम् ? । बुद्ध्या विनयति । श्रमापगमादेः फलस्य कर्तृसमवायित्वादात्मनेपदे सिद्धे नियमार्थ वचनम् । व्यवच्छेद्यं च मत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न