SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ हेम ५४ 1 धातुकार्यमियादेशः । अत एव च ज्ञापकात् प्रकृतिवदनुकरणे कार्यं भवति । तेन मुनी इत्याह द्विष्पचतीत्याप्रकृतिभावत्वविकल्पादि सिध्यति । परावेर्जेः ॥ ३ । ३ । २८ ॥ उपसर्गात्कर्तर्यात्मनेपदम् । पराजयते । उपसर्गादित्येव । सेना पराजयति । बहु विजयति वनम् । समः क्ष्णोः ॥ ३ । ३ ॥ २९ ॥ कर्त्तर्य्यात्मनेपदम् । संक्ष्णुते - खम् । सम इति किम् ? । क्ष्णैति । उपसर्गादित्येव । आयसं क्ष्णौति । अपस्किरः || ३ | ३ | ३० ॥ अपपूर्वात्किरते: सस्सट्कात्कर्त्तर्य्यात्मनेपदम् । अपाच्चातुष्पात्यक्षिशुनि दृष्टान्नाश्रयार्थे ॥ ४ । ४ । ८५ ।। कर्त्तरि यथासंख्यं किरते: सादिः । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । सस्सट्रक निर्देशादिद न । अपकिरति वृषभः । अपेति किम् ? । उपस्किरति । उदश्वरः साप्यात् || ३ | ३ | ३१ ॥ कर्त्तर्य्यात्मनेपदम् । गुरुवचनमुच्चरते । व्युत्क्रम्य गच्छतीत्यर्थः । ग्रासमुच्चरते भक्षयतीत्यर्थः । साप्यादिति किम ? | धूम उच्चरति । ऊर्ध्वं गच्छ तीत्यर्थः ॥ समस्तृतीयया |३|३|३२|| चरतेयगे कर्त्तर्यात्मनेपदम् । रथेन संचरते । तृतीययेति किम् ? । उभौ लोकौ संचरसि । किं त्वं करिष्यसि। रथ्यया संचरति चैत्र इत्यत्र तृतीयान्तेन योगाभावान्न । क्रीडोडकूजने || ३|३| १३|| संपूर्वात् कर्त्तर्यात्मनेपदम् । कूजनमव्यक्तः शब्दः । संक्रीडते । अकूजन इति किम् ? । संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः । अन्वापरेः || ३ | ३ | ३४ ॥ उपसर्गात्क्रीडः कर्तर्यात्मनेपदम् । अनुक्रीडते । आक्रीडते । परिक्रीडते । उपसर्गादित्येव । माणवकमनुक्रीडति । माणवकेन सह क्रीडत इत्यर्थः । धातुना अनोरसम्बन्धाद्वा न भवति । शप उपलम्भने ॥ ३ । ३ । ३५ ।। उपलम्भनं ज्ञापनम् । मैत्राय शपते । मैत्रं कश्चिदर्थं Cataracर्थः । मैत्रवैवंभूतोऽसावित्यन्यस्मै प्रकाशयतीत्येके । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपय इति यावत् । मैत्राय शपते । वाचा मात्रादि शरीरस्पर्शनेन स्वाभिप्रायं बोधयतीत्यर्थः । प्रोषितस्य भावाभावोपलकस्यचिदर्थस्यासेवनं चोपलम्पनम् । मैत्राय शपते । प्रोषिते मैत्रे तस्य भावाभावे चोपलब्धे तदनुरूपं किञ्चिदनु. 1 कण्ड् प्रक० ५४
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy