________________
हेम
अश्वीयतेः सनि ॥ नाम्नो द्वितीयाद्यथेष्टम् ॥ ४ । १ । ७ ॥ स्वरादेर्नाम्नो धातोर्द्विर्वचनभाजो द्वितीयादारभ्यैकस्वरोऽवयवो यथेष्टं द्विरुच्यते । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति । इन्दिद्रीयिषति । इन्द्रीयियिषति इन्द्रीयिषति ॥ अन्यस्य ॥ ४ । १ । ८ ॥ स्वरादेरन्यस्य नाम्नो धातोर्द्विर्वचनभाजः प्रथमादिरेकस्वरो यथेष्टं द्विः । पुत्रीयिषति । वित्रयिषति । पुत्रीयियिषति । पुत्रीयषिषति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रीयियिषति । चन्द्रीयिषिषति । पुत्रीयन्तं मायुक्त अनुपुत्रीयत् । अपुतित्रीयत् । अपुत्रीयियत् । प्रियमाख्यातुमाचक्षाणं मेरयितुं च्छति । पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । प्रापयिषिषति । उरुं विवरयिषति । वरिरयिषति । वरयियिषति । वरयिषिषति ॥ कण्ड्वादेस्तृतीयः ॥ ४ । १ । ९ ॥ कण्ड्वादेर्धातोद्विवचनभाजस्तृतीय एवैकस्वरो द्विः । कण्डूयियिषति । असूयियिषति ॥ पुनरेकेषाम् ॥ ४ । १ । १० ॥ मते द्विश्वे कृते द्विः । सुसोपुपिषते । एकेपामिति किम् ? | सोपुपिषते । सन्नन्ताण्णिगि, बुभूषयति । यङन्ताण्णिगि बोभूययति । यङ्लुगन्ताणिगि बोभावयति । णिगन्ताणिग् भावयति । व्यन्नात्सनि, विभावयिषति । यजूं सन् ण्यन्तान्सन् । बोभूयिषयिषति । यङ् णिग् सन्नन्ताण्णिम् । बोभूययिषयतीत्यादि ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरि विजयसिंह सरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिश्चन्द्रापरनामषृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि. संविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां प्रत्ययमालाः ॥
॥ अथात्मनेपदप्रक्रिया ॥
इङितः कर्त्तरि । आस्ते । शेते ॥ क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हवहवानन्योन्यार्थे ॥ ३ । ३ ।२३॥ कर्त्तयत्मनेपदम् । इतरेण चिकीर्षितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः । व्यतिलुनते । व्यतिपुनते ।
कण्डू
प्रक
५३