________________
हेम ५.
पक०
वस्त्रेण वा समाच्छादयति संवस्त्रयति । वस्त्रं परिदधाति परिवस्त्रयति । तृणान्युत्प्लुत्य शातयति उत्तणयति । हस्तिनातिक्रामति हस्तयति । एवमत्यश्वयति । वर्मणा संनह्यति संवर्मयति । वीणयोपगायत्युपवीणयति । सेनयाऽभियायात्यभिषेणयति । चूर्णैरवध्वंसयति अवकिरति वा अवचूर्णयति । तूलैरनुकुष्णाति अबकुष्णति अनुगृह्णाति वा अनुतूळयति अवतू यति । वास्या छिनत्ति वासयति । एवमसिना असयति। वास्या परिच्छिनत्ति परिवासयति। वाससो. न्मोचयति उदासयति । परशुना परशयति । श्लोकैरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयुनक्ति समश्वयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । बलेन सहते बलयति । शीलेनाचरति शीलयति । एवं सामयति । सान्त्वयति । छन्दसोपचरति उपमंत्रयते वा उपच्छन्दयति । पाशेन संयच्छति। संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । कूलमुल्लड्डयति उत्कूलयति । कूलं प्रतीपं गच्छति प्रतिकूलयति । कलमनुगच्छति अनुकूलयति । कोष्टानवमर्दयति अवलोष्टयति । पुत्रं सूते पुत्रयति इत्यादि । आख्यानं नलोपाख्यानं कंसवध सीताहरण रामप्रव्रजनं राजागमनं मृगरमणं आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागमोदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न यत्रानेकविशेषणविशिष्ट क्रिया प्रत्ययार्थस्तत्र क्रियाविशेषाभिव्यक्तये उपसर्गप्रयोग आवश्यकः। यथा विपाशयति सम्पाशयतीति । एकविशेषणविशिष्टक्रियायाः प्रत्ययार्थत्वे तु नैवम्, सन्देहाभावात् । यथा श्येनायते । एवम् प्रत्ययस्यानेकार्थत्वेऽपि अर्थविशेषाभिव्यक्त्यर्थमुपसर्गप्रयोगः यथा अतिहस्तयति । अनेकोपसर्गविशिष्टक्रियायाः प्रत्ययार्थत्वे शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति द्वितीयस्तूपसर्गेणेव प्रत्याय्यते । यथा भाण्डानि समाचिनोति सम्भाण्डयते ॥"विन्मतोर्णीष्ठेयसौ लुप्" इति लुपि स्रग्विणमाचष्टे स्रजयति । पयस्विनीं पययति । विन्मतोलुप्यनेकस्वरस्यान्त्यस्वरादे के विकल्पनेच्छन्त्येके । लुगभावपक्षे णौ गुणं च । पयसयति २॥ त्वग्वन्तं वचयति । वमुमन्तं वसयति ।
8955
16HUSAUR
36+