SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 355 | चित्तौ ॥३।४।४०॥ कर्मणो णि वा। भाण्डानि समाचिनोति सम्भाण्डयते । परिभाण्डयते । राशीकरो- 1 तीत्यर्थः । समाचयनं सम्परिभ्यां योत्यते ॥ चीवरात्परिधानार्जने ॥३।४ । ४१॥ कर्मणो णिक वा । चीवरं परिधत्ते परिचीवरयते । समाच्छादनमपि परिधानम् । संचीवरयते । चीवरमर्जयति चीवरयते । सम्माजनेऽप्यन्ये ॥ णिजबहुलं नाम्नः कृगादिषु ॥ ३।४ । ४२ ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन यस्मानाम्नो यद्विभक्त्यम्तायस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्ताद् तहात्वर्थ एव भवतीति नियमो लभ्यते । मुण्डं करोति मुण्डयति छात्रम् । मिश्रयत्योदनम् । लक्ष्णयति वनम् । लवणयति सूपम् । एभ्यव्यथै एवेति कश्चित् । व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति । प्रत्यये उत्पन्ने योऽसौ व्याकरणमूत्रयोः सम्बन्धः स निवर्तत इति न व्याकरणशब्दा. स्पष्टी किन्तु सूचयतिक्रियासम्बन्धादूद्वितीयेव । एवं द्वारमुद्घाटयतीत्यादि। ननु तपस्यतीत्यादिवत्कर्मणो वृत्तावन्तर्भावान्मुण्डिनाऽकर्मकेण भाव्यमिति चेन । सामान्यकर्मणोऽन्तर्भावेऽपि विशेषकर्मणा सकर्मकत्वात् । मुण्डयति छात्रमिति । पुत्रीयतीत्यादौ तु आचारक्यना बुद्धेरपहृतत्वादिच्छाक्यन्नन्तस्य विद्यमानमपि विशेषकर्म न प्रयुज्यते । पुत्रीयति छात्रमित्युक्ते पुत्रमिच्छतीति प्रतीत्यभावात् । तदुक्तम् “ सदपीच्छाक्यनः कर्म तदाचारक्यना हृतम् । कौटिल्पेनेव गत्याभ्यासो वृत्तौ न गम्यते । १ ।" मुण्डं बलीवदै करोतीत्युभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे वाऽ. नभिधानान भवति । पटुमाचष्टे पटयति । वृद्धौ कृतायामन्त्यस्वरादिलोपः । अपीपटत् । न च परत्वात्पूर्व लोप एव स्यादिति वाच्यम् । हलिकलिवर्जनात्परस्यापि लोपस्य वृद्ध्या बाधात् । गोनावमाचष्टे गोनयति । अजूगुनत । इस्खे कर्तव्ये स्थानिवद्भावस्तु न, स्वरस्य पर इति स्थानिवद्भावस्यानित्यवात् । वृक्षमाचष्टे रोपयति वा वृक्षयति । तं गृह्णाति कृतयति । एवं वर्णयति । स्वचयति । रूपं दर्शयति रूपयति । रूपं निध्यायति निरूपयति । लोमान्यनुमोति। अनुलोमयति । तूस्तानि विहन्ति उदहति वा वितूस्तयति उत्तूस्तयति केशान् । विजटीकरोतीत्यर्थः । वस्खें. *99****CASHKURSAARET
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy