________________
15 कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । चतुर्थीनिर्देशः किम् ? । रिपुःकष्ट कामति । पाप इति किम् ? । कष्टाय ६
तपसे क्रामति । क्रमणमिह प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये ॥ रोमन्थाद् व्याप्याच्चर्वणे ॥ हेम ॥ ३।४।३२ ॥ क्यङ्वा । अभ्यवहृतं द्रव्यं रोमन्थः। रोमन्थमुचयति रोमन्थायते गौः। उद्गीर्य चर्चय
नाम तीत्यर्थः । उच्चर्वण इति किम् ? । कीटो रोमन्थं वर्त्तयति । उद्गीर्य बहिस्त्यक्तं पृष्ठानन्ते निर्गत वा द्रव्यं गुटिका करोतीत्यर्थः ॥ फेनोमवाष्पधूमादुद्धमने ॥ ३ । ४।३३॥ कर्मणः क्यङ् वा । फेनमुद्धमति फेनायते । उष्मा. यते । बाष्पायते । धूमायते ॥ सुखादेरनुभवे । ३।४।३४ ॥ कर्मणा क्यङ्वा ॥ साक्षात्कारोऽनुभवः। मुखायते । दुःखायते । अनुभव इति किम् ? । देवदत्तस्य सुख वेदयते प्रसाधकः । मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः॥ शब्दादेः कृतौ वा ॥३॥४॥ ३५ ॥ कर्मणः क्यङ् । णिजपवादः । शब्दं करोति शब्दायते । वैरायते । वाश- 18 ब्दो व्यवस्थितविभाषार्थः । तेन यथादर्शन णिजपि । शब्दयति । बैरयति । वाधिकारस्तु वाक्यार्थः ॥ तपसा क्यन् ॥३।४।२६ ॥ कर्मणः करोत्यर्थे वा । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायस्तप:शब्दस्तदाक्यन्कर्मणो वृत्तावन्ततत्वादकर्मकत्वम् । यदा तु सन्तापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव । तपस्यति शत्रून् ॥ नमोवरिवश्चित्रको सेवाश्चये ॥ ३।४ । ३७ ॥ कर्मणो यथासक्रूथं करोत्यर्थे क्यन् वा नमस्यति देवान् । वरिवस्यति गुरुन् । चित्रीयते । डकार आत्मनेपदार्थः। अर्चादिष्विति किम् ? । नमः करोति । नमःशब्दमुचारयतीत्यर्थः।। अङ्गान्निरसने जिङ् ॥ ३।४ । ३८॥ कर्मणो वा । हस्तौ निरस्यति । हस्तयते । पा. दयते निरसन इति किम् ? । हस्तं करोति हस्तयति । कर्मण इति किम?। हस्तेन निरस्यति । ङकार आत्मनेपदार्थः। पुच्छादुस्परिष्यसने ॥३।४ । ३९॥ पुच्छात्कर्मण उदसने पर्यसने व्यसने असने चार्थे णिल्वा । पुच्छमुदस्यति । उत्पुच्छयते । पर्यस्यति,परिपुच्छयते । विविध विरुद्धं वोत्क्षेपण व्यसनम् । विपुच्छ यते । पुच्छवते ॥ भाण्डात्समा.