________________
ह्मणीयते । वानरीयते । कायते । कायाञ्चक्रे । त्वद्यते । मद्यते । युष्मद्यते । अस्मद्यते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । पट्वीमृद्धयाविव पट्वीमृदूयते । एके तु कतुः सम्बन्धिन उपमानाद् द्वितीयान्तात् क्विपूक्यङा विच्छन्ति । तन्मतसंग्रहार्थं कर्तुरिति षष्ठी व्याख्येया । द्वितीयाया इति चानुवर्त्तनीयम् । क्विचिति पूर्वप्रसिद्धानुवादः॥सो वा लुक् च ॥ ३ | ४ | २७ ॥ स इति पञ्चम्यन्तं षष्ठयन्तं च । सकारान्तात्कर्त्तुरूपमानादाचारे क्पङ वा अन्त्य - सस्य लुक् च वा । पयायते पयस्यते । क्रम । सरायते । सरस्यते । अन्ये स्वप्सरस एव लोपो नान्यस्येत्याहुः | | ओजोऽप्सरसः ॥ ३ । ४ । २८ || कर्त्तुरूपमानादाचारे क्यछ वा सलोपश्च । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । अन्ये त्वोजःशब्दे सळोपविकल्पमिच्छन्ति ॥ च्व्यर्थे भृशादेःस्तोः ॥ ३ । ४ । २९ ॥ कर्त्तुः क्यङ् वा लुक् च । अभृशो भृशो भवति भृशायते । च्व्यर्थ इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्रच्यते । करोतिस्तु कर्त्तुरित्यनेन न्युदस्तः । उन्मनायते । न प्रादिरप्रत्ययः । उदमनायत । सुमनायते । स्वमनायत । अप्रत्यय इत्युक्तेः, औत्सुकायंत । वेहायते । कर्तुरित्येव । अभृशं भृशं करोति । च्व्यर्थ इति किम् ? | भृशो भवति । प्राग
मात्रेधानात् क्यङा चिवर्न बाध्यते । भृशीभवति ॥ ढाजू लोहितादिभ्यः षित ॥ ३ । ४ । ३० ।। कर्तृभ्यश्च्व्यर्थे क्यङ् ॥ क्यषो न वा || ३ | ३ | ४३ ॥ धातोः कर्तर्यात्मनेपदम् । अपट - पटायति । पटपटायते । डाजन्तात् क्यविधानात् क्यषापि योगे डाच् । लोहितायति । लोहितायते । लिङ्गविशिपरिभाषया लोहिनीयति । लोहिनीयते । कर्त्तुरित्येव । पटपटाकरोति । च्व्यर्थ इत्येव । लोहितो भवति । बहुवचनमाकृतिगणार्थम् । लोहितादिषु लोहितशब्दादेवेच्छन्त्यन्ये । धूमादीनां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीर्थो नास्तीति तद्वृत्तिभ्यः प्रत्ययः । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ कष्टकक्ष कृछ्रमत्रगहनाथ पापे क्रमणे || ३ | ४ | ३१ ॥ कष्टादिभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः । य । कष्टाय कर्मणे क्रामति । कष्टाय एवं