________________
हेम
सृच्यशूर्णोः ॥ ३ । ४ । १० ॥ भृशाभीक्ष्ण्ये यङ् । अटाटयते । अरायैते । सोसूश्यते । मोमूत्रयते। सोनूच्यते । अशाश्यते । प्रोर्णोनूयते ॥ गत्यर्थात्कुटिले || ३ | ४ । ११ ।। व्यञ्जनादेरैकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्त्तमानाछातोर्यङ् न भृशाभीक्ष्ण्ये || मुरतोऽनुनासिकस्य ॥ ४ । १ । ५१ ।। आत्परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्विवे पूर्वस्य मुरन्तः । चङ्क्रम्यते |२| बम्भण्यते । जङ्गम्यते । यलवानामनुनासिकत्वे तन्तय्यते । चंचलपते । मंमव्यते । अननुनासिकत्वे तातय्यते । चाचल्यते । मामव्यते । अत इति किम् ? तेतिम्यते । बाभाम्यते । अनुनासिकस्येति किमू १। पापच्यते । पूर्वसूत्रे कुटिल इति किम् ? । भृशं क्रामति । धात्वर्थविशेषणं किम् ? । कुटिलं पन्थानं गच्छति वक्र कौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्य वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्त एव यह न केवल इत्यन्ये । एवमुत्तरत्रापि । कथं जङ्गमः १रूढिशब्दोऽयम् । लक्षणया स्थावरेतरमात्रे वर्त्तते ॥ गृलुपसदचरजपजभदशदहो गर्छौ ॥ ३ ॥ ४ । १२ ॥ यङ् ॥ गोयङि ॥ २ । ३ । १०१ ।। रस्य लत्वम् । गर्हितं निगिरति । निजेगिल्यते । अत्र परेलवे भ्वादेरित्यस्यासत्वम् । गृणातेस्तु यडेव नास्ति । केचिचु तस्यापीच्छन्ति । लत्वं तु नेच्छन्ति । लोलुप्यते । सा
॥ चरफलाम् ॥ ४ । १ । ५३ ।। यङन्तानां द्विश्ये पूर्वस्य मुरन्तः । बहुवचनं विफला विशरण इत्यस्यापि परिग्रहार्थम् । ति चोपान्त्यातोऽनोदुः || ४ | १ | ५४ ॥ यङन्तानां चरफलान्तादौ प्रत्यये च । चर्यते । २। फल्यते २ । अत इति किम ? । चारयतेः फालयतेथ क्विपि आचारक्विपि यङि चश्चार्यते । पम्फाल्यते । अनोदिति किम ? | चर्त्ति । पम्फुल्ति । जपजभदहदशभजपशः ॥ ४ । १ । ५२ ॥ यङन्तस्य द्विध्ये पूर्वस्य मुरन्तः । जब्जप्यते २ । जञ्जभ्यते २ । दन्दह्यते । दन्दश्यते । बम्भज्यते । पशिति सौत्रो धातुः । पम्पश्यते । दशिति निर्देशात् यङ्लुप्यपि नलोपः । दंदशति । अन्यस्तु तत्र नलोपं नेच्छति ॥ ऋमतां रीः ॥ ४ । १ । ५५ ॥ यङन्तानां द्विवे पूर्वस्यान्तः ॥ नृतेर्यङि ॥२ | ३ | ९५ ॥ नस्य णत्वं न । नरीनृत्यते । यङीति किम् ? । हरिणर्ती नाम कश्चित् ।
सभ
मक
४६