________________
॥ अथ यङन्तप्रक्रिया ॥
T
व्यञ्जनादेरेकस्वराभृशाभीक्ष्ण्ये यह वा ॥ ३ । ४ । ९ ॥ धातोः । गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन सम्पत्तिः फलातिरेको वा भृशतम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेना. वृत्तिराभीक्ष्ण्यम् । सन्यस्येति द्वित्रम् | आगुणावन्यादेः || ४| १| ४९ ॥ धातोर्यङन्तस्य द्विश्वे पूर्वस्य । न्यादिव - जैनं किम् ? । बनीवच्यते । यंयम्यते । नरीनृत्यते । अपवादत्वादेव न्यादिभिरेतद्वापे सिद्धे तद्वर्जनं द्वित्वे सति पूर्वस्य विकारेषु बाधक न बाधक इति ज्ञापनार्थम् । तेनाचीकरदित्यत्र न दीर्घेण सन्वत्कार्थबाधः । भृशं पुनः पुनर्वा पचति । पापच्यते । बोभूयते । लोलूयते । आभीक्ष्ण्पयन्तस्याभीक्ष्ण्ये द्वित्रं तु नः । उक्तार्थत्वात् । यदा तु भृशार्थदाभीक्ष्यविवक्षा तदा भवत्येव । पापच्यते पापच्यत इति । एवं भृशार्थयङन्तादाभीक्ष्ण्ये आभीक्ष्ण्ययङन्ताद्वा भृशाक्षि यदा च केवला तदा सा केवळा तदर्थयोतने असमर्थेन तदर्थयोतने द्विर्वचनमपेक्षते । पापच्यस्वपापच्यस्येति । पूर्वसूत्रे धातोरित्येव । तेन सोपसर्गान । भृशं प्रात्ति । व्यञ्जनादेरिति किम् ? । भृशमीक्षते । एकस्वरादिas ? | भृशं चत । केचिज्जागर्चेरपीच्छन्ति । जाजाग्रीयते । सर्वस्माद्धातोरायादिमत्य यरहितात्केचिदिछन्ति । अवाव्यते । दादरिद्रयते । भृशाभीक्ष्ण्य इति किम् ? । पचति । वेति किम् ? । लुनीहि लुनाहीत्येवायं लुनातीत्यादि यथा स्यात् ॥ योऽशिति ॥ ४ । ३ । ८० ॥ व्यञ्जनान्ताद्धातोः परस्य लुक् । अपापचिष्ट । पापचाश्चक्रे । पापचिता । सोसूचिता शाशयिता कुषिभितेत्यादौ णिलोपे शयादेशेऽल्लोपे च व्यञ्जनान्तता । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति । तन्मतसन्प्रहार्थं धातोरिति विहितविशेषणं कार्यम् । धातोरित्येव । ईयिता । व्यञ्जनादित्येव । लोलूयिता । अशितीति किम् । बेभिद्यते । दीर्घीति दीर्घः । तोष्द्रयते || अध्यति त्रिमूत्रि