________________
C
URRECORRECX
॥ अथ युष्मदस्मत्मक्रिया ॥
॥तयोरलिङ्गत्वम् ॥ ॥ त्वमहं सिना प्राक्चाकः ॥२।१।१२॥ युष्मदस्मदोर्यथासङ्ख्यं तदतत्सम्बन्धिना । त्वम् । अ. हम् । अतित्वम् । अत्यहम् । प्राक् चाक इति किम् । त्वकम् । अहकम् । अन्तरकत्वादकि सति तम्मध्यपतितन्यायेन साकोप्यादेशः स्यात् ।। मन्तस्य युवावौ इयोः ॥२।१।१०। युष्मदस्मदोः स्यादौ ॥ अमौ मः॥२।१।१६ ॥ युष्मदस्मद्भ्याम् । अकार उच्चारणार्थः । युष्मदस्मदोः॥२।१।६॥ व्यञ्जनादी तदतत्सम्बन्धिनि स्यादौ आ: स्यात् । युवाम् २ । आवाम् २ ॥ यूयं वयं जसा ॥२।१ । १३ ॥ युष्मदस्मदोः प्राक् चाकः । यूयम् । वयम् । पाक चाक इत्येव । यूयकम् । वयकम् ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२।१।११॥ स्यादौ युष्मदस्मदोमन्तस्य । त्वाम् । माम् । अन्तरङ्गत्वात् स्यादिद्वारेणैव सिद्धे, प्रत्ययोत्तरपदग्रहणमन्तरङ्गानपि विधीन् बहिरङ्गापि लुब्बाधते इति ज्ञापनार्थम् । तेन तत् इत्यादि सिद्धम् ॥ शसो नः ॥२।१।१७॥ युष्मदस्मद्भ्यां परस्य । युष्मान । अस्मान् ।। टायोसि यः॥२।१।७॥ युष्मदस्मदोः । त्वया । मया । युवाभ्याम् ३ । आवाभ्याम् ३ । युष्माभिः । अस्माभिः॥ तुभ्यं मह्यं ङया ॥२।१।१४ ॥ युष्मदस्मदोः । तुभ्यम् । मह्यम् । प्राक् चाक इत्येव । तुभ्यकम् । माकम् ॥ अभ्यं भ्यसः ॥२।१।१८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीबहुवचनस्य ॥ शेष लुम् ॥ २१॥८॥आत्वयत्वनिमित्तेतरस्यादी युष्मदस्मदोरन्तस्य लुकू स्यात् । युष्मभ्यम् । अस्मभ्यम् । शेषे किम् । त्वयि । मयि ॥ उसेश्चाद् ॥२।१।१६॥ युष्मदस्मद्भ्यां परस्य पञ्चमीभ्यसः । त्वद् । मद् । युष्मद् । अस्मद् ॥ तव मम सा॥२।१।१५॥ युष्मदस्मदो। तव । मम । माक् चाक इत्येव । तवक । ममक । युवयोः । आ