SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ क दुपेरुपान्त्यस्य णौ ऊदा । चित्तं दूषयति दोषयति वा कामः । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञा दूषयति दोषयति था। गोहः स्वरे । निगृहयति ॥ श्वेर्वा ।।४।१। ८९ ॥ सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवत् । अशुशवत् । अशिश्वयत् । विषयविज्ञानादन्तरङ्गमपि वृद्धयादिकं वृता बाध्यते कृते च तस्मिन् वृद्धिः । तत आवादेश उपान्त्यहस्वत्वम् । ततो णिकृतस्य स्थानिवत्वात शोदित्वम् । ततः पूर्वस्य दीर्घ इति क्रमः । स्वपेर्यक्डे च । असूघुवत् । अतिरीब्लीहीक्नूयीक्ष्माय्यातां पुः। अर्पयति । रेपयति । ग्लेपयति । हेपयति ॥ य्वोः प्वय्ख्यञ्जने लुक ॥४।४।१२२ ॥ पुग्रहणमप्रत्ययार्थम् । क्नोपयति । मापयति । वर्जनं किम् ? । क्नूय्यते । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणादिह न । वश्चकः ॥णौ क्रीजीङः ॥ ४।२।१०।। आकारोऽन्तः । क्रापयति । जापयति। अ. ध्यापयति ॥ णौ सन्डे वा ॥४।४ । २७ ॥ इडो गाः । अध्यजीगपत् । अध्यापिपत् । णाविति किम् ? । अधिजिगांसते । सनङ इति किम् ? । अध्यापयति ।सिध्यतेरज्ञाने ॥ ४ ॥२॥११॥ णौ स्वरस्याकारः । अनं साधयति निष्पादयतीत्यर्थः । अज्ञान इति किम् ? । तपस्तपस्विनं सेधयति । साधिनैव सिद्ध सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्यर्थ वचनम् ॥ चिस्फुरोन वा ॥४॥२॥१२॥ णौ स्वरस्यात् । चापयति ।चाययति । स्फारयति । स्फोरयति । चियः प्रजने ॥४।२।१३ ॥ णौ वाऽऽत्वम् । प्रजनो गर्भग्रहणम् । पुरो वातो गाः प्रवापयति । वाययति । गर्भ ग्राहयतीत्यर्थः । वातेः प्रजने वृत्तिर्नास्तीत्यारम्भः ॥ रुहः पः॥ ४।२।१४॥ णौ वा । रोपयति रोहयति वा तरुमारोहत्यर्थे रुप्यति स्तीत्यारम्भःलियो नोऽन्तः इति ने, घृतं विलीनयति । विलाययति । आत्वे तु विकालयति । विलापयति ॥पातेः॥४।२।१७|| लोऽन्तः । पालयति । पलण रक्षणे इत्यनेनैव सिद्धे पाययतीति प्रयोगनिवृत्यर्थ वचनम् । विनिर्देशात्पा पान इत्यादादिकस्य न । यङ्लनिवृत्त्यर्थश्च सः । पापाययति ॥ वो विधूनने जः॥४।२।१९ ॥ णावन्तः । पक्षकेण उपवाजयति । अवीवजत् । विधूनन इति किम् ? । ओर्वे, उच्चैः SAR AC%
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy