________________
HERSARSAN
MOHAMASA
मयति । अत्राख्यानेन । आख्यानेन हि बुध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते । कसं घ्नन्तं प्रयुक्त कैसं धातयति नरः । अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम् । अत्र कालज्ञानेन । उज्जयिन्याः.प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति । अत्र प्राप्त्या। ननु कर्ताऽपि करणादीनां प्रयोजक इति तद्न्यापारेऽपि णिगस्त्विति चेत् , न, प्रयोक्तृग्रहणसामर्थ्यात् । तथा क्रियां कुर्वन्नेव कर्ताऽभिधीयते । तेन तूष्णीमासीचे प्रयोज्ये मा पृच्छतु भवान् अनुयुक्ता मां भवानित्यत्र णिग् न । पञ्चम्या बाधितत्वाद्वा । बाधिकार आबहुलवचनात्पक्षे वाक्यार्थः । ओर्जान्तस्थापवर्गेऽवणे । अबीभवत् । जुं इति सौत्रो धातुः। अजीजवत् । अयी. यवत् । अरीरवत् । अलीलवत् । अपीपवत्। अमीमवत् । जान्तस्थापवर्ग इति किम् ?। जुहावयिषति । अवणान्त इति किम् ? बुभूपति ॥ असमुप्लुच्च्योर्वा ॥४।१।६१ ॥ सनि द्वित्वे सति पूर्वस्योकारान्तस्यावर्णान्तायामन्तस्थायां परस्यामिः । अशिश्रवत् । अशुश्रवत् । असिस्रवत् । असुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत् । अपुप्रवत् । अपिप्लबत् । अपुप्लवत् । अचिच्यवत् । अचुच्यवत् । अशशासत् । अडुढौकत । अचचकासत् । अचीचकासदित्यपरे । राजयति । अरराजत् । चोरितवन्तं प्रयोजितवान् अचूचुरडनं चौरेण । अवीवदबीणां परिवादकेन ॥ घटादेहस्वोदीर्घस्तु वा त्रिणम्परे ॥४।२ । २४ ॥ णौ । घटयति । अजीघटत् । स्मरयति । स्मृत्वरेति पूर्वस्यात्वम् । असस्मरत् । अददरत । अतत्वरत् ॥ वा वेष्टचेष्टः ॥ ४।१।६६ ॥ असमानलोपे उपरे णौ द्वित्त्वे पूर्वस्याकारोऽन्तः । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥ कगेवनूजनजयुक्नमः ॥४।२।२५ ॥ णौ इस्वो त्रि. णम्परे तु णौ वा दीर्घः । कगे इति सौत्रो धातुः । कगयति । उपवनयति । जनयति । जरयति । क्नसयति । केचित्त ष्णमूच् इत्यस्या पीच्छन्ति । घटादयः पठितार्था एवं गृह्यन्ते । कगादीनां त्वर्थविशेषो नोपादीयते ॥ णौ मृगरमणे ॥४॥२॥५१॥ र रुपान्त्यनकारस्य लुक् । रजयति मृगान् व्यायः । मृगरमण इति किम् ?। रञ्जयति रजको वस्त्र
SAR
51HE