SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ वान्ति पर्णमुचोऽपरे । वान्ति पर्णरुहोऽप्यन्ये ततो देवः प्रवर्षति । १। अथवा णिजबहुलमित्येव सिद्धे सूत्रमूत्रच्छिद्रान्धादय उदाहरणार्थाः । तेनादन्तेष्वनुक्ता अपि बहुलं द्रष्टव्याः, तेन स्कन्ध समाहारे स्कन्धयति । स्फुट प्रकटभावे स्फुटयति । वस निवासे बसयतीत्यादयोऽपि भवन्ति ॥ वृत् युजादयः परस्मैपदिनः॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसविग्नशाखीयतपोगच्छाचार्यभट्टारकश्री. विजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां चुरायो णितो धातवः॥ प्रक० ॥ भूङः प्राप्तौ णिक ॥३।४ । १९॥ धातोर्वा । भावयते । भवते । प्राप्नोतीत्यर्थः । भवतीत्येवान्यत्र । IA णिङिति डकार आत्मनेपदार्थः । भूङ इति उकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः । अर्थान्तरेऽपि क्वचिदात्मने पदमिष्यते । यथा, याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे इति । प्राप्तावपि परस्मैपदमित्यन्ये । सर्व भवति प्राप्नोतीत्यर्थः॥ SSESSSSSS ॥अथ णिगन्तप्रक्रिया ॥ ॥ प्रयोक्तृव्यापारे णिग् ॥३।४।२० ॥ कर्तारं यः प्रयुक्ते स प्रयोक्ता तद्व्यापारेऽभिधेये धातोणिय वा । व्यापारश्च प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदेरनेकधा । तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम् । सत्कारपूर्वकस्त्वध्येषणम् । भवन्तं प्रयुक्ते भावयति । भावयते । कुर्वन्तं प्रयुक्त कारयति । अत्र प्रेषणेनाध्येषणेन वा यथासम्भवं प्रयोक्तृत्वम् । वासयति भिक्षा । अत्र निमित्तभावेन । राजानमागच्छन्तं प्रयुक्त राजानमाग
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy