________________
+
+
+
+
वेत्यर्थः । वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यपरे । छिद्रण मेदे ५१ । मिश्रण संपर्चने ५२ । वरण ईप्सायाम ५३ । वरयति । स्वरण आक्षेपे ५४ । शारण दौर्बल्ये ५५ । शारयति । शरेति मन्दी । कुमारण क्रोडायाम् ५६ । कुमारयति । अचुकुमारत । लान्तोऽयमित्यन्ये । कलण संख्यानगत्योः ५७ । कलयति । क्षेपे तु काळयति गाः । शी. लण उपधारणे ५८ । उपधारणमभ्यासः परिचयो वा । शीलयति । बेल कालग उपदेशे ५९। वेलयति । वेलणू कालोपदेश इत्यन्ये । पल्यूलण लवनपवनयोः ६० । अपपल्यूलत् । बल्यूलेत्यन्ये । अंशण समाघाते ६१ विभजन इत्यधः । अंशयति । दन्त्यान्तोऽयमिति चन्द्रः । पषण अनुपसर्गः ६२ । पषयति । उपसर्गे तु प्रपषति । गवेषण मागणे | ६३ । मृषण क्षान्तौ ६४ | अममृषत् । णिचोऽनित्यत्वे । मृषति । रसण आस्वादनस्नेहनयोः ६५। वासण उपसेवायाम् ६६ । निवासण आच्छादने ६७ । अनिनिवासत् । चहण कल्कने ६८ । चहणः शाठचे ॥४।२।३१ ॥ णिचि णौ च परे इस्वो मिणम्परे तु वा दीर्घः । अत्रादन्तत्वात्सिद्धावपि दीर्धार्थ वचनम् । चहयति । महण पूजायाम ६९ । राण त्यागे ७० । अररहन् । रहुण गतौ ७१ । रंहयति । रंहापपतीत्पपि मतान्तरे । स्पृहण ईप्सायाम ७२ । स्पृदयति । रूक्षण पारुष्ये ७३ । अरुरूक्षत् । ॥ इत्यदन्ताः परस्मैपदिनः ॥
मृगणि अन्वेषणे १ । मृगयते । अर्थणि उपयाचने २ । अर्थयते । पूर्वाचार्यानुरोधेनास्यादन्तेषु पाठः। अर्थापयते इत्यपि केचित् । अन्ये तु णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः । तेनानेकस्वरत्वाधर न। एवं गर्विप्रभृतीनामपि । पदणि गतौ ३ । पदयते । संग्रामणि युद्ध ४ । संग्रामयते । अयं परस्मैपदोत्येके । शूर वीरणि विक्रान्तौ ५। सत्रणि संदानक्रियायाम ६ । संतानक्रियायामित्येके । अससत्रत । स्थूलणि परिवहणे ७ । गर्वणि माने ८। गृहणि ग्रहणे ९। अजगृहत । कुहणि विस्मापने १०। कुहयते । मुखादीनामदन्तत्वं च णिचूसन्नियोग एव । तेन णिजभावे जगण जग