________________
विष्कारयोः १३८ । विशब्दयति । नन्दी तु योगविभागमिच्छति । शब्दण उपसर्गादित्येकः । भाषाविष्कारयोरिति द्वितीय: । अयमनुपसृष्टार्थः । प्रशब्दयति । शब्दयति । दण् आश्रवणे १३९ । क्षरण इति केचित् । सूदयति । आडः क्रन्दणू सातत्ये १४० । आक्रन्दयति । व्यदणू आस्वादने १४१ । संवरण इत्यन्ये । स्वादयति | आस्वदः स कर्मकादेव स्वदेर्णिच् न त्वकर्मकात् । आस्वादयति यवागूम् । मुदणू संसर्गे १४२ । मोदयति सक्तून् सर्पिषा । शृण प्रसहने | १४३ | प्रसहनमभिभवः । अशीशृभत् । अशशर्धेत् । कृपणू अवकल्कने १४४ । अवकल्कनं मिश्रीकरणं सामर्थ्यश्च । कल्पयति । अवकल्पनमित्यन्ये । जभुज् नाशने १४५ । जम्भयति । अपण रोगे १४६ | आमयति । चरण असंशये १४७ | विचारयति । निश्चिनोतीत्यर्थः । संशये इत्यन्ये । पूरणू आप्यायने १४८ । पूरयति । दळणू विदा
१४९ । णिगि दलयतीत्येके । दिवणू अर्दने १५० । पशू पषण बन्धने १५१ । पाशयति पशुम् । पाषयति । दन्त्यान्त्यमिमच्छन्त्येके । पुषण धारणे १५२ । घुट्टै विशन्दने १५३ ॥ विशिष्टशब्दकरणे नानाशब्दकरणे इति वा । अविशब्दन इत्येके । अघोषयति पापम् । अपन्हुत इत्यर्थः । ऋदित्करणाण्णिचोऽनित्यत्वम् । अघुषत् । अघोषीत् । कौशिकस्त्वनृदितमिममिच्छति । आङः कन्दे १५४ | सातस्य इत्यपरे । भाघोषयति । भृष तमुण् अलङ्कारे १५५ । भूषयति । अवतंसयति । जसण ताडने १५६ | त्रसण बारणे १५७ | धारण इति नन्दी | त्रासयति मृगान् । निराकरोतीत्यर्थः । वसणू स्नेहच्छेदावहरणेषु १५८ । अवहरणं मारणम् । वासयति रिपून्। सण उत्क्षेपे १५९ । उच्छ इति केचित् । भ्रासयति । प्रसण ग्रहणे १६० । लसण् शिल्पयोगे १६१ । लष इत्यन्ये । लश इत्यपरे । अर्हण् पूजायाम् १६२ | आर्जित । मोक्षण असने १६३ । मोक्षयति बाणान् । अस्यतीत्यर्थः । लोक तर्क रघु लघु लोच विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घड वृत पुथ नद बुध ग्रुप धूप कुप चित्र दशु कुशु त्र पिसु कुठ द व बृह वल्ल अहु बहु महुणू भासार्थाः १६४ ॥ मासार्थाचेति पारायणम् । भासयति इन्धयति प्रकाशयति दीपयति दिशः । भाषार्थी इत्यन्ये