SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ॥ अथ यजादयो नव श्विवदवजी निटश्च ॥ देवपूजा सङ्गतिकरणदानेषु । १ । यजति । यजते अयाक्षीत् । अयष्ट ॥ यजादिवश वचः सस्वरान्तस्था वृत् ॥ ४ ॥ १।७२ ॥ परोक्षायां द्वित्वे पूर्वस्य प्रत्यासत्या । इयाज । वच् इति वश्साहचर्याद् वचंगब्रूगादेशो गृह्यते न यौजादिकः ॥ यजादिवचेः किति ॥ १।७९ || सस्वरान्तस्था वृत् । इमतुः । इजुः । इयजिय । इयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा |२| यक्ष्यति । यक्ष्यते । वेंग् तन्तुसन्ताने |२| वयति । वयते । अवासीत् । अवास्त । वेर्वय् ||४|४|१९|| परोक्षायां वा । उवाय । किति वृति ॥ न वयो य ॥ ४ । १ । ७३ । पेमः परोक्षायां वृन्न । ऊषतुः । उचयिथ । वयादेशाभावे वेरयः ।। ४ । १ । १७४ पूर्वस्य परस्य च परोक्षायां वृन्न । आत्सन्ध्यक्षरस्येत्यात्वे । वौ | अविति वा ॥ ४ । १ | ७५ ॥ वेगोऽयन्तस्य परोक्षायां य्टन्न । वक्तुः । पक्षे द्वित्वे कृते वर्णात्माकृतं बलीय इति परत्वाच्चोवि समानदीर्घे । ऊचतुः ॥ वृत्सकृत ॥। ६ । १ । १०२ ।। अन्तस्थास्थानम् । इति पश्चाद्वकारस्य न वृत् । वविथ । वनाथ । ऊया - त् । वासीष्ट । व्थेंगू संवरणे । ३ ॥ व्यस्थवर्णावि ॥ ४ । २ । ३ ॥ आन ॥ ज्यान्येव्वधिव्यचिव्ययेरिः ॥ ४ ॥ १ | ७१ ॥ परोक्षायां द्वित्वे पूर्वस्य । वृद्धौं । विव्याय । वृद्वाधनार्थ मिकारस्यापीकारः । नामिनोऽसिद्धत्वाद्वादेन इति न दीर्घः । विव्यतुः । रितृव्येद इति नित्यमिटि । विव्ययिथ । वीयात् । व्याता । व्यपते । अव्यास्त । विव्ये | डेंगू स्पर्धाशब्दयोः । ४ । आह्वयति । आह्वयते ॥ हालिप्सिचः ॥ ३ । ४ । ६२ ॥ कर्तर्यद्यतन्यामङ् । आहृत | आहात || द्वित्वे हः ॥ ४ । १ । ८७ ॥ सस्वरान्तस्था वृत् । आजुहाव । आजुहुवतुः । आजुहविथ । आजुहोथ । अनेनैव सिद्धे उत्तरसूत्रकरणं णेरन्यस्मिन्द्वित्वनिमित्त प्रत्ययव्यवधायके वृन्माभूदित्येवमर्थम् । तेनेह न । जिह्वायकीयिषति । आजुहुवे । आहूयात् । आह्रासीष्ट । आह्राता । २ । दुवपों बीजसन्ताने । ५ । बीजानां क्षेत्रे विस्तारणे इत्यर्थः । गर्भावाने च्छेदने च । वपति । वपते । अत्राप्सीत् । अवप्त । उवा । ऊपे । उध्यात् । वप्सीष्ट ।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy