________________
हेमप्रभा . ॥। १८ ।।
रिदमः स्यादावन्वादेशेऽवत्यन्ते । आभ्याम् । एषु । अनक् इति वचनात् साकोऽपि विधिः ॥ टौस्यनः ॥ २ । १ । ३७ ॥ त्यदामनक इदमः । अनेन । अनक इति किम् । इमकेन । अनक् ।। २ । १ । ३६ ॥ त्यदादेव्यञ्जनादौ स्यादौ परे अक्वर्ज इदमत् स्यात् । आभ्याम् | इदमदसोऽक्येव ॥ १ । ४ | ३ ॥ आत्परस्य भिस ऐस् । इमकैः । नियमः किम् । एभिः । परमैभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । एषु ॥ किमः कस्तसादौ च ।। २ । १ । ४० ॥ त्यदाम् स्यादौ । साकोऽपि । कः । कौ । के । शेषं सर्ववत् । त्यदामित्येव । प्रियकिम् । मो नो स्वोश्च ।। २ । १ । ६७ ॥ भ्वादेः पदान्ते स चासन् परे । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशान्भ्याम् । एवं । प्रदान् । प्रतान् । परिक्लान् । नस्यासत्वादत्र नलोपो न ॥ वाः शेषे ॥ १ । ४ । ८२ ।। घुटि परेऽनडुच्चतुरोरुतः । चत्वारः । प्रियचत्षाः । चतुरः । चतुर्णाम् ॥ अरोः सुपि रः ॥ १ । ३ । ५७ ।। एव रस्य । चतुर्षु ॥ उतोऽनडुच्चतुरो वः ॥ १ । ४ । ८१ ।। सम्बोधने सौ । हे प्रियचत्वः । दिव औः सौ ॥ २ । १ । ११७ ॥ सुद्यौः । सुदिवौ । हे सुद्यौः ॥ उः पदान्तेऽनूत् ॥ २ । १ । ११८ ॥ दिवः । सुद्युभ्याम् | अन्नूत् किम् | शुभवति । द्यौकामिः । अनुनासिके च च्छ्ः शूद इति वक्ष्यमाणेन च्छस्य शत्वे तस्य षत्वे डत्वे टत्वे च शब्दप्राट् । शब्दमाड् । शब्दप्राशौ । एवं विश् । तादृग् । तादृशौ । एवं सृदिश् सदृश्घृतस्पृशादयः ॥ नशो वा ॥ २ । १ । ७० ॥ पदान्ते गः । जीवनक् २ | जीवनट् २ । • जीवनशौ ॥ सजुषः ॥ २ । १ । ७३ ॥ रुः स्यात् पदान्ते ॥ पदान्ते ॥ २ । १ । ६४ ॥ भ्वादेव वदनमिनो दीर्घः । सह जुषते इति सजूः । सजुषौ ॥ णषमसत्परे स्थादिविधौ च ॥ २ । १ । ६० ॥ इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं वा असिद्धं द्रष्टव्यम् । एतत्सूत्रनिर्दिष्टयोषयोः परे पे णोऽसन् । णपशास्त्रं वा ॥ इति षत्वस्यासिद्धत्वात् पिपठीः । पिपठिषौ । पिपठीःषु । पिपठीष्णु । दघृण २ । दधृषौ । रत्नमुट् २ । रत्नमुषौ । एवं प्रियषट् । षट् । षड्भिः । षण्णाम् । चिकीर्षतीति चिकीः । चिकीर्षौ
व्यञ्जनान्ताः
पुल्लिङ्गाः
॥ १८ ॥