________________
र्ययोः | १२ | प्रसवोऽभ्यनुज्ञानम् । सवति ॥ धूगु सुस्तोः परस्मै ॥ ४ । ४ । ८६ ॥ सिच आदिरिद् । असावीत् ॥ अपोपदेशत्वान्न त्वम् ॥ सुसाव । षोपदेशोऽयमित्यन्ये । इत्युदन्ताः । स्मृ चिन्तायाम् | १३ | स्मरति । अस्मातू ५ । अस्माष्टम् ।। ऋतोऽत् ॥ ४ । १ । ३८ ॥ द्विश्ये पूर्वस्य । सस्मार ॥ संयोगादृदन्तैः ॥ ४ । ३ । ९ ॥ संयोगात्परो य ऋत्तदन्तस्यार्त्तेश्च परोक्षायामकि गुणः । सस्मरतुः । सस्मरुः ॥ ऋतः ॥ ४ । ४ । ८० ॥ वृचि नित्यानिटो विहितस्य थव आदिरिहून । पृथग्योगाद्वेति निवृत्तम् । सस्मर्थ । तृज्नित्यानिट इत्येव । सस्वरिथ | अत्रापीडनिषेधमिच्छन्त्येके । क्ययङाशीयें ॥ ४ । ३ । १० ॥ संयोगात्परो य ऋतदन्तस्य धातोरर्त्तेश्व गुणः । स्मर्यात् ७ । औपदेशिक संयोगग्रहणादिह न । संस्क्रियात् अर्चेरिति तिनिर्देशादपि न । स्मर्त्ता ॥ हतः स्यस्य ॥ ४ । ४ । ४९ ।। आदिरिट् । स्वरतेः परत्वाद्विकल्पं बाधित्वा नित्यमिट् । तकारनिर्देशादर्त्तेरेव ग्रहणं न । - स्मरिष्यति । अस्मरिष्यत् । गृ घृ सेचने ॥ १४ ॥ रिः शक्याशीयें || ४ | ३ | ११० ॥ ऋकारान्तस्य धातोर्ऋनः | ग्रियात् । स्वविधानान्न दीर्घः । औस्ट शब्दोपतापयोः । १५ । स्वरति ॥ धूगौदितः ॥ ४ । ४ । ३८ ॥ स्वाद्यशित आदि रिड् वा ॥ अस्वारीत | अस्वार्षीत् । अस्वारिष्टाम् । अस्वाष्टम् । सस्वरिथ । वृचि नित्यानित्वाभावान विकल्पः । सस्वर्थ इत्यपि केचित् । स्वर्त्ता स्वरिता । एके तु चायीस्फायीध्यायीनामपि विकल्पमिच्छन्ति । निचाता | निचायिता । अपरः पठति । नातिक्रंस्यति । नातिक्रमिष्यति । अन्यस्त्वद्यतन्यामास्कन्दिषमास्कान्त्समितीच्छति । बहुलमेकेषां विकल्पः । पट्टा । परिता । तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनित्यमिति न्यायाच विचित्रमय वैयाकरणाः । स्वरिष्यति । हनृतः स्यस्येति परत्वान्नित्यमिह । दूहं वरणे । १६ । छं हुईं कौटिल्ये । । १७ । गतौ । १८ । सरति ॥ सतैर्वा ॥ ३ । ४ । ६१ ॥ कर्त्तर्यद्यतन्यामङ् । ऋ अदा दिव दिर्वा । सः कर्त्तर्यात्मनेपदं न दृश्यते । अतैस्तूभयत्रोदाहार्यम् । आत्मनेपदे न भवति परस्मैपदे नित्य