________________
हेम०
401091c1
॥४॥
a
मिति । असाधुरेवायम् । अङितो माशब्दस्यायं प्रयोग इति केचित ॥ सस्मे शस्तनी च ॥५।४। ४०॥ माङयद्यतनी । मा स्म भवत् । मा स्म भूत् । माशब्दवाच्यनिषेधद्योतकः स्मशब्दः ॥ अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२।३ । ७७॥ नो णः । णेति णोपदेशा धातवः । णोपदेशास्त्वनृतिनदिनशिनन्दिनाटिनक्किनाथनाधृनधातवः । नाटीति चौरादिकस्य ग्रहणम् । प्रभवाणि।आनेरर्थवतो ग्रहणात्, प्रलोमानि । एकदेशविकृतस्यानन्यत्वात् ,प्रहिणोति।अदुरिति किम्?। दुर्भवानि । प्रणायको देश इत्यत्र तु येन धातुना युक्ताः पादयस्तमेव प्रत्युपसर्गसंज्ञा इति न । अलचटतवर्गशपान्तर इत्येव । प्रतिनमति । परिनदनमित्यत्र तु क्षुभ्नाादित्वान्न ॥ अकखाद्यषान्ते पाठे वा ॥२॥३८॥ धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः परस्य नेनों ण् स्यात् । प्रणिभवति । प्रनिभवति । स्तम्भः सौत्रेषु पाठापाठविषयत्वम् । मणिमयते इत्यादौ तु नेईमादेति सूत्रारम्भसामर्थ्यान् नित्यमेव णत्वम् । अकखादीति किम् ?। निकरोति । प्र. निखनति । अपान्त इति किम्? । प्रनिद्वेष्टि । पाठ इति किम्? । इह च प्रतिषेधः । मनिचकार । इह च मा भूत् । प्रणिचेष्टा । यइलुपि नेच्छन्त्येके । उपसर्गास्त्वर्थविशेषद्योतकाः । प्रभवति पराभवति सम्भवति अनुभवति अभिभवतीत्यादौ विविधार्थावगतः । उक्तं च-" उपसर्गण धात्वर्थों बलादन्यत्र नीयते । विहाराहारसंहारमहारमतिहारवत ॥१॥ किञ्च-धात्वर्थ बाधते कश्चित कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १ ॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥१॥ बुद्धिस्थादभिसम्बन्धात् तथा धातुपसगयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते।पांपाने।अनुस्वार एकस्वरादितीनिषेधार्थः। अत्रेमे धातुप्रत्ययानुबन्धफलप्रतिपादकाः श्लोकाः ॥"उच्चारणेऽस्त्यवर्णाद्य आक्तयोरिणनिषेधने । इकारादात्मनेपद-मीकाराच्चोभयं भवेत् ॥ १॥ उदितः स्व
रानोन्तश्चोः क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽहस्व ऋकारदाविकल्पका ॥२॥ लुकारादङ समायात्ये सिचि वृद्धिनिषेधकः । एः क्तयोरिणनिषेधः स्यादोः क्तयोस्तस्य नो भवेत् ॥ ३ ॥ ओकार इडूविकल्पार्थेऽनुस्वारोऽ.
RAHARHATHOREHICOBRRENCE
4 -%AE%EMAILOP